पृष्ठम्:न्यायलीलावती.djvu/१८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
११२
न्यायलीलावती


बाघः । विशेषगुणत्वं च एकद्रव्यवृत्तित्वं [१] कतिपयद्रव्यवृत्तित्वं


न्यायलीलावती कण्ठाभरणम्

म्यम् । स्वासमानाधिकरणद्रव्यत्वसाक्षाद्व्याप्यजातिसमानाधिकरणगुणावृत्तिनानाजातिव्यापकगुणत्वव्याप्यजातिशून्यत्वं तदित्यपिवदन्ति | पूर्वहेतौ विशेषणा सिद्धिमाह --विशेषगुणत्वं चेति । एकद्रव्यवृत्तित्वमिति | द्रव्यविभाजकोपाधिमात्रव्याप्यवृत्तिगुणत्वव्याप्यजातिमत्त्वमित्यर्थः । कतिपयेति । द्रव्यविभाजकोपाधिव्यभिचारित्वमित्यर्थः ।

न्यायलीलावतीप्रकाशः

करणगुणावृत्तिनानाजातिव्यापकगुणत्वव्याप्यजातिशून्यत्वम्। एकवृत्तित्वं द्रव्यत्वव्याप्यविभक्तोपाधिव्याप्यमात्रवृत्तिगुणत्वव्याप्यजातिमत्त्वं

न्यायलीलावती प्रकाशविकृतिः

पदं च पूर्ववदेव । पाकपदं च स्पर्शवन्मात्रवृत्तितेजः संयोगपरम्, अतो नाग्निसंयोगासमवायिकारणकशब्दवृत्तिजातिव्यापकशब्दत्ववति विभागजशब्देऽव्याप्तिश्च । न चैवं पाकजशब्देऽतिव्याप्तिः, अ पाकजत्वस्यापि निरुक्तपाकघटितत्वात् । पाकप्रयोज्यत्व समव्याप्तं [२]चेदमतो न घटादिरूपेऽव्याप्तिः । न चैवे पाकप्रयोज्यजातिशून्यत्वमेव सम्यक् यथोक्तविशेषणविशेष्यमावे वैयर्थ्याभावादित्याहुः ।

 केचित्तु पृथिवीरूपरसगन्धानामेव विलक्षणत्वेन तद्भिनयावद्वृत्त्यवैलक्षण्यं निर्वाच्यमिति नैमित्तिकद्रवत्वे पृथिवीसुवर्णयोः परस्परचिजातीयेऽव्याप्तिवारणाय गुणत्वव्याप्यपदं विशेषगुणत्वव्याप्यपरमिति वदन्ति ।

 एकवृत्तित्वं संख्यादावतिव्याप्तमतस्तदर्थमाह - द्रव्यत्वेति । द्रव्यत्वव्याप्यो विभक्तोपाधिः पृथिवीत्वादिस्तव्घाप्यो गन्धादिस्तन्मात्रवृत्तिगुणत्वव्याप्यजातिगंन्धत्वादिस्तद्वत्त्वम्। निविडसंयोगत्वमादाय पृथिवीवृत्तिसंयोगव्यभिचार इति गुणत्वव्याप्यपदम् । तदर्थश्च गुणत्व साक्षाव्घाप्यत्वम् । अत एव स्वरूप ( पा?) सिद्धिरपि सङ्गच्छते । अन्यथा पृथिवीस्पर्शमात्रवृत्तिजातिसत्त्वेन तदसङ्गत्यापत्तेः । पाक


  1. एकवृत्तित्वामिति प्रकाशानुसारी पाठः ।
  2. पाकाप्रयोज्यत्वसमव्यापकं चे ।