पृष्ठम्:न्यायलीलावती.djvu/१८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
११३
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


वा । नाथः । स्पर्शस्यानेकद्रव्य वृत्तित्वात् । पाकजत्व विशेषा [१]न्नैवमिति चेन्न, तस्यैवासिद्धेः । द्वितीये तु वेगेनैव व्यभिचारात् [२] । ततः पृथिवीमात्रभेदग्राहकप्रमाणाभावात् पृथिवी नेतरेभ्यो भिद्यते [इति] । मैवम् । अस्ति तावद्गन्धं प्रति गन्धवतां समवायिकारण-


न्यायलीलावतीकण्ठाभरणम्

आद्ये स्वरूपासिद्धिमाह - स्पर्शति । द्रव्यचतुष्टयवृत्तित्वादित्यर्थः । यदि कतिपयद्रव्यवृत्तिगुणत्वं विशेषगुणत्वं तत्राह — वेगेनोति । तस्य सामान्यगुणत्वाभ्युपगमादित्यर्थः । पूर्व्वपक्षमुपसंहरति-तत इति । पृथिवीत्वमितरभेदकं साधयितुं पीठमारचयति –अस्ति तावदिति । तथा च गन्धसमवायिकारणतावच्छेदकतया पृथिवीत्वजातिसिद्धि-

न्यायलीलावती प्रकाशः

स्वरूपासिद्धमित्याह – स्पर्शस्येति । एकोपादेयत्वं सामान्यगुणे व्यभिचारीति शेषः [३] । अस्ति तावदिति । ननु मण्यादो गन्धो योग्यानुपलम्भबाधितः, न च वर्षणात्तत्रापि गन्धोपलम्भः, घर्षकगन्धविलक्षणगन्धाननुभवात् । नापि पाकजरूपवत्वेन गन्धमनुमाय गन्धज्ञानसहकृतेनेन्द्रियेण तत्र पृथिवीत्वग्रहः, अतीन्द्रिये मानाभावात् तस्य जलादावपि सुवचत्वात् । अत्राहुः । लाघवाद य एवावयवाः मणिमारब्धवन्तस्त एव तद्भस्मारभन्ते । तत्र च गन्ध उपलभ्यत एव । तथा च ग न्धवदारम्भकत्वान्मणिपरमाणुर्गन्धवानिति गन्धवदारभ्यत्वेन मण्याद्यपि गन्धवदेव । स चोद्भूतो नास्तीत्यनुद्भूतः कल्पयते । न चो.

न्यायलीलावतीप्रकाशविवृतिः

जत्वविशेषणादित्यग्रिममूलस्यालग्नकत्वमाशङ्कय पूरयति --- एकोपादेयत्वमिति । एकवृत्तित्वं यद्येकोपादेयत्वमभिमतं इत्यर्थः । एवं चाग्रिममूलमेव तड्यभिचारोद्धारपरमिति भावः । नापीति । एतच्च गन्धमात्रस्यैव व्यञ्जकत्वमिति मतमवलम्ब्य । वस्तुतः पाकजज्ञानसहकतेन्द्रियेणापि तस्य ग्रहसम्भवादित्यवधेयम् । अतीन्द्रिय इति । न च पाकजरूपेण तदनुमानमप्रयोजकत्वादिति भावः । गन्धवदारभ्यत्वेनेति | विजातीयगन्धवदसहकृतगन्धवदारभ्य-


  1. पाकजत्व विशेषणान्नै० ।
  2. ०चारः ।
  3. भावः ।