पृष्ठम्:न्यायलीलावती.djvu/१८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
११४
न्यायलीलावती


त्वम् । न चैतन्नानाव्यक्तिनिष्ठम्, सति भावमात्रस्याहतुत्वात्मकस्वात् [१] । सावधारणस्य [२] च व्यभिचारात्तासु सिद्धे: । ततस्तत्प्रयोजक जातियोगित्वमास्थेयम् । तदेव [च] पृथिवीत्वम् । न च


न्यायलीलावतीकण्ठाभरणम्

रित्यर्थ: । ननु घटत्वादिनैव तदवच्छिद्यतामित्यत आह - न चेति । घटे सति गन्धो भवतीत्यन्वयग्रहेऽपि घटं विना न भवतीतिव्यतिरेकाभावान्न घटत्वादीनां समवायिकारणतावच्छेद कत्वमित्यर्थः । तर्हि द्रव्यमात्रमेव गन्धसमवायिकारणं स्यादित्यत आह - साधारणेति । तास्विति । पृथिवीव्यक्तिषु गन्धसमवायिकारणत्व सिद्धेरित्यर्थः । किं चात इत्यत आह - तत इति । मण्यादावपि गन्धोऽस्ति परन्त्वनुभूतः कथमन्यथा भस्मनि गन्धोपलम्भः । न हि यैः परमाणुभिर्मणिरारभ्यते तद्भिन्नेन तस्य भस्मारभ्यत इति युक्तं कल्पनागौरवापातात् । उद्भूतगन्धैः कथमनुद्भुतगन्धारम्भ इत्यत्र तु तत्ततैलगतं तेज एव निदर्शनम्, अनुद्भूतरूपेण तेजसा तत्र उद्भूतरूपतदाररम्भात् किं च क्वचित् पाकाद्रूपादि विलक्षणं दृश्यते जलादौ तु न दृश्यत इति तदाश्रयगतं वैजात्यमावश्यकम् | नोलादिरूपाम्लादिरससमवायिकारणतापि जात्यवच्छेद्येति सिद्धं पृथिवीत्वमित्यर्थः । अथ समवायिकारणत्वं च शब्दसमवायिकारणत्ववन्न जात्यवच्छेद्यं अदृष्टवत्त्वेनैवावश्यकेन तदवच्छेदादिति न क्षेत्रज्ञमात्रनिष्ठमात्मत्वं जाति:, धर्म्मिग्राहकमानेन ईश्वरस्याप्यात्मत्वेनैव सिद्धेः ।

 वायुना चम्पकादिभागानयने सच्छिद्रतापर्त्ति कर्पूरेऽल्पतापत्ति

न्यायलीलावतीप्रकाशः

द्भूतगन्धेनानुभूतगन्धानारम्भः, अतितप्ततैलादावनुद्भुतरूपतेजसोद्भूतरूपतदारम्भवदविरोधात् । जलादौ च तदसम्भवान्नातिप्र-

न्यायलीलावतीप्रकाश

त्वेनेत्यर्थः । तेन गुणविरोधेन निर्गन्धे न व्यभिचारः । अतितप्तेति । एतच्चोद्भूतत्वादेरहृष्टभेदप्रयोज्यत्वेनानियममभ्युपेत्य । वस्तुत उद्भूतादेवोद्भुतमितिनियमेऽपि पाकेन परमाणावनुभूतगन्धनाशे उ-


  1. तुत्वात् ।
  2. साधारणस्येति कण्ठाभरणधृतः पाठः ।