पृष्ठम्:न्यायलीलावती.djvu/१८६

एतत् पृष्ठम् परिष्कृतम् अस्ति
११५
न्यायलीलावतीकण्ठाभरण-सर्विवृतिप्रकाशोद्भासिता


न्यायलीलावतीप्रकाशः

सङ्गः । अपि च पाकाद्रूपादीनां परावृत्तिरुत्पत्तिश्च दृश्यते, जलादौ च नियमेन न दृश्यते, इत्याश्रय विशेषप्रयुक्तोऽयमिति परिशेष घटत्वादीनां व्यभिचारात् सकलघटादिव्यापकजलादिव्यावृत्ततद्योग्यताघटकरूपसिद्धिः । तच्च बाधकाभावाज्जातिः । एवं नीलादिरूपाम्लादिरससमवायिकारणतावच्छेदकतयाऽपि तत्सिद्धिः । न चैवं सुखसमवायिकारणत्वेन संसार्यात्मनिष्ठा आत्मत्वव्याच्या जातिः स्यात्, इष्टापत्तेः । न चैवं नवैव द्रव्याणीति व्याहतं ज्ञानवत्त्वेन विभागात् । आत्मनस्तु नित्यद्रव्यत्वेन [१]द्रव्यत्वव्याव्यव्याप्यजात्यभावसाधने विपक्षे बाघकाभावः। सुखसमवायिकारणत्वमात्मत्वावच्छेद्यमेव अदृष्टाभा-

न्यायलीलावती प्रकाशविवृतिः

द्भूतगन्धारम्भात्तदारब्धे भस्मनि उद्भूतगन्धाविरोधः । न च निर्गन्धपरमाणोरेव सगन्धभस्मारम्भः, पाकजगन्धे पूर्वगन्धनाशस्यान्वयव्यतिरेकाभ्यां कारणत्वावधारणात् । तैलस्थलेऽपि तादृशतेजोन्तरप्रवेशादेव तादृशतेजोनिष्पत्तिरिति स्मर्त्तव्यम् । पाकादिति । पाकप्रयोज्यरूपजनकतावच्छेदकत्वेन पृथिवीत्वसिद्धिरित्यर्थः । यथाश्रुते पाकजरूपस्य परमाणुमात्रवृत्तितया पृथिवीत्वस्य तदनवच्छेदकत्वात् । अत एव घटत्वादीनामवच्छेदकत्वशङ्कया तन्निराकरणमपि युक्तम् । एवमिति । नीलादियोग्यतावच्छेदकजातेः शुक्लादिमत्यप्यविरोधादिति भावः । न चैवमिति । यद्यपि सुखसमवायिकारणतावच्छेदकजात्यभ्युपगमेऽपि तव्धापकात्मत्वजात्यैव विभागादियमाशङ्का निर्वीजा, तथापि तज्जातौ मानाभाव इत्यभिमानादियमाशङ्का । ज्ञानवत्वेनेति । आत्मपदशक्यतावच्छेदकतया सिद्धेनात्मत्वेनेत्यर्थः । अतो न द्रव्यत्वव्याप्यव्याप्येत्याद्यग्रिमग्रन्थविरोध: । केचित्तु ज्ञानवत्त्वेनेति यथाश्रुतमेव, सकलात्मवृत्त्यात्मत्वं जातिर्नास्त्येव अग्रे च द्रव्यत्वव्याप्यपदं द्रव्यविभाजकोपाधिपरमित्यावरोध इत्याहुः । क्वचित्तु द्रव्यत्वव्याप्येत्यनन्तरं व्याप्य पदशून्यः पाठः । स चायुक्तः । तथा सति परमाणौ स्फुटव्यभिचारसम्भवे विपक्षबाधकाभावावलम्बनप्रयासानुपपत्तेः [२] । न च सुखसमवायिकारणतावच्छेदकजातिस्वीकारे जलावयविनि स्नेहसमवायिकारणतावच्छेदकजात्यापत्तिरिष्ट-


  1. द्रव्येति सम्पातायातम् ।
  2. पत्तिः ।