पृष्ठम्:न्यायलीलावती.djvu/१८७

एतत् पृष्ठम् परिष्कृतम् अस्ति
११६
न्यायलीलावती


गन्धवत्त्वेमेवातिप्रसङ्गीति वाच्यम्, अनिलादौ चम्पकगन्धिकर्पूरगन्धीत्युपाधिभेदसम्भेदेनैव [१] कुङ्कुमारूणा तरुणीत्यादिवत् तत्प्रतीतेः[२]। न चैवमव्ययतापत्तिरिति वाच्यम्, अङ्कुरदशामारभ्य यथान्वहमदृष्टाकृष्टैर्भागरुपचयाद्विविधशाखाभिराकाशदेशव्यापकत्वं तरोर्न तु च्छेदे सति, तथेहापीत्यतो विशेषात् । अत एव न चम्प-


न्यायलीलावतीकण्ठाभरणम्

च निरस्यति - अङ्कुरेति । अदृष्टवशात् क्कचित् पूरणं क्वचित्रेति नातिप्रसङ्ग इत्यर्थः । अत एवेति । अदृष्टवशान्तत्रापि दलपूरणमित्यर्थः । औ-

न्यायलीलावतीप्रकाशः

वान्नेश्वरे सुखमित्यपि वदन्ति । अनिलादाविति । न च चम्पकगन्धीत्यत्र चम्पकस्येव गन्धोऽस्तीत्यर्थे उपमानाच्चेत्यनेन समासान्तविधानाच्चम्पकगन्धभिन्नगन्धवत्वं प्रतीयत इति वाच्यम्, उपाधेरन्वयव्यतिरेकात्तस्यैव वायोर्दूरे निर्गन्धत्वेन प्रत्यभिज्ञानाच्च । तथेहापीति । फलेन सामग्यनुमानस्य तुल्यत्वादित्यर्थः । अत एवेति । न च तरोराध्यात्मिकवायुना पार्थिवावयवानामन्तर्न्नयनाजलतेजोभ्यां च तस्य पाकाद्वक्षवृद्धिः च्छेदे तु तदभावाद्वघ्घभावः । कर्पूरे चाध्यात्मिकबायोरभावाद्वैषम्यमिति वाच्यम, फलेन सामग्न्यनुमानस्य तुल्यत्वादित्युतत्वात् । उपाध्यज्ञानेऽपि सुरभिर्वायुरितिप्रतीतेर्वायौ गन्धः

न्यायलीलावती प्रकाशविवृतिः

त्वादिति भावः । नित्यस्य स्वरूपयोग्यस्य सहकारियोग्यतावश्यम्भावादिदमयुक्तमित्यनुशयोऽपि नासूचितः । उपाधेरिति । प्रयोगसमर्थनं तु गन्धव्यक्तिविशेषसाहश्यमादायेति भाव: । केचित्तु चम्पकस्य गन्धः चम्पकगन्धः सोऽत्रास्तीति सम्बन्धीयेन (मत्वर्थी येन ?) तत्साधुत्वमित्याहुः । अङ्कुरदशामिति मूलम् । इदं तु समाधिसौकर्यादुक्तम् । वस्तुनस्तु यथा दीपारम्भकसामग्यैव परितोविसारि अनुभूतस्पर्शमुद्भूतरूपं प्रमाख्यद्रव्यमारभ्यते, तथा चम्पकाद्यारम्भकसामग्य्याप्यनुभूतरूपस्पर्शमुद्भूत गन्धचम्पकपरितोविसारिद्रव्यमारभ्यते । अत एवानुकूलेऽपि वायौ न दूरे गन्धग्रह, चम्पक-


  1. ०धिसम्बन्धेनैव कु० ।
  2. ०णीतिवत् तत्प्र० ।