पृष्ठम्:न्यायलीलावती.djvu/१८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९७
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोनासिता


कादौ सच्छिद्रतापत्तिरिति[१] । वायोर्गन्धवत्त्वे उद्भूतस्पर्शस्य [२] चाक्षुषतापत्तेः । रूपवत्वं प्रयोजकमिति चेन्न, गुणादावभावात् । न च स्पर्शोऽप्यपाकन एव, सुखास ( श) कादौ सतततपनकरसम्भेदे


न्यायलीलावतीकण्ठाभरणम्

पाधिकत्वमुक्कापि वायोर्गन्धवत्त्वे बाधकान्तरमाह-वायोरिति । उद्भू तगन्धवत्वे सति उद्भूतस्पर्शवत्वं द्रव्यचाक्षुषत्वव्याप्यमित्यर्थः । अवैलक्षण्यात स्पर्शेऽपि पाकजत्वं नास्तीति यदुक्तं तत्राह - न चेति । स्पर्शोऽपि पाकजः पृथिव्यामितरभेदसाधक इत्यर्थः । पाकजत्वाय बैलक्षण्यमाह --सततेति । सुखाशकं त्रिपूषफलम् [३] । आदिपदात् कपि-

न्यायलीलावतीप्रकाशः

स्वाभाविकः स्यादित्यत आह - - वायोरिति । उद्भूतस्पर्शस्येति । प्रत्यक्ष स्पर्शस्येत्यर्थः । अतो न परमाणौ व्यभिचारः । महत्त्वेन हेतुर्विश्लेग्य इत्यन्ये न च चक्षुरसन्निकृष्टविनष्टेन व्यभिचारः, चक्षुर्योग्यताया आपाद्यत्वात् । रूपवत्त्वमिति । न च रूपवत्त्वस्यैव चक्षुर्ग्राह्यत्वे योग्यतावच्छेदकतया साध्यत्वात्तस्य चानुपाधित्वादिति वाच्यम्, रूपवत्वस्यैव योग्यतारूपत्वेन साध्यत्वात् स्वरूपेणोपाधित्वाविरोधात् । गुणादाविति । यद्यपि साधनावच्छिन्न साध्यव्यापकत्वे नायं दोषस्तथाप्युपाधेरण्यापादयितुं शक्यत्वात् साधनव्यापकत्वमस्त्येवेति भावः । सुखाशकादाविति [४] । अयमर्थः अस्ति त्वचा परामृष्टेषु तत्तद्वस्तुरूपर्शेषु पाकानन्तरं सुकुमारकठिनतरतमादिधीः सार्वलौकिकी, तत्रान्वयव्यतिरेकाभ्यां तेजः संयोग एव प्रयोजकः । न चायवविनि निविड: संयोगः संग्रहाख्य एव तस्य विषयः, तस्य द्वीन्द्रियग्राह्यतया

न्यायलीलावतीप्रकाशविवृतिः

भागानयने दूरेऽपि गन्धग्रहः स्यात् । समीप इव दूरेऽपि सामन्यास्तुल्यत्वादिति शूलपाणिमिश्रा वदन्ति ।

 अवैलक्षण्यादपाकजत्वमिति प्रागुक्तम्, तच्चासिद्धमिति प्रतिपा दयन्नाह --अयमर्थ इति । तस्येति । न च त्रसरेणु संयोगवदे कोन्द्रियग्राह्यत्वं


  1. त्तिरपि ।
  2. ० त्त्वे प्रत्यक्षस्पर्शवतश्चा० ।
  3. त्रपुसं कण्टकिकलमिति भावप्रकाशः । शशा इति भाषा ।
  4. कर्कटी विशेष इति प्राचीनटिप्पणी ।