पृष्ठम्:न्यायलीलावती.djvu/१८९

एतत् पृष्ठम् परिष्कृतम् अस्ति
११८
न्यायलीलावती


स्पर्शभेदस्य प्रतीतेः । अन्यत्रापि च तीव्रसुकुमारादिभावेन विशेषप्रतीतेः । यत्र तु न प्रतीयते विशेषस्तत्रापि पार्थिवस्पर्श-


न्यायलीलावती कण्ठाभरणम्

कच्छु [१] प्रभृतिपरिग्रहः । यत्र त्विति । पाषाणादावित्यर्थः । न च सुकुमारादिरवयवसंयोगभेद एव न तु स्पर्शभेद इति वाच्यम्, त्वङ्मात्रवेद्यत्वात् संयोगग्रहेऽपि कठिनसुकुमारादिसंशयादिति भावः । तत्रापीति ।

न्यायलीलावतीप्रकाशः

चक्षुषाऽपि तद्ग्रहापत्तेः । न चेष्टापत्तिः, चक्षुषा तद्ग्रग्रहेऽपि स्पर्शविशेषसंशयात् अन्धकारेऽपि तत्प्रतीतेः । अवयवसंयोगस्यावयविन्यवृत्तस्तद्गतत्वप्रतीतर्भमत्वापत्तेश्चेति स्पर्शविशेष एव तद्विषय इति । तत्रापीति । पृथिवीस्पर्शः तेजःसंयोगजन्यः प्रतिनियतेन्द्रियग्राह्य पृथिवीगुणत्वात् गन्धवत् । न च त्वगवेद्यत्वमुपाधिः, तेजोवयविनि साध्याव्यापकत्वात् । न च साधनावच्छिन्न साध्यव्यापकः

न्यायलीलावतीप्रकाशविवृतिः

तस्येति वाच्यम्, त्रसरेणोरे केन्द्रियग्राह्यतया तत्र तथात्वादत्र तु आश्रयस्य द्वीन्द्रियग्राह्यत्वादिति भावः । अन्धकारेऽपीति । अन्धकारस्थित पदार्थेऽप्यालोकावस्थित सुखाशकवत्काठिन्यप्रत त्यापत्तेरित्यर्थ: । तथा च तेजःसंयोगानुविधायितया संयोगादन्यदेव काठिन्यमिति भावः । यत्तु अन्धकारे धर्मिणि तत्प्रततितेनैविड्यप्रतीतेः । तथा च तत्रापि कठिनोऽयमन्धकार इति प्रतीतिः स्यादिति भाव इति । तदयुक्तम् । इष्टापत्तेः । कचित्तु अन्धकारपदं चक्षुर्व्यापारोपलक्षकं [२] तथा च त्रसरेण्ववच्छेदेनान्धकारे यदा घटादिक त्वचा गृह्यते तदा संयोगग्रहाभावेपि काठिन्यप्रतीतिरिति संयोगादन्यदेव काठिन्यमित्यर्थ इत्याहुः । अवयवगतसंयोगविशेषस्यैव काठिन्यरूपत्वेऽवयविनि कठिनप्रतीतिर्न स्यात्स्याद्वा भ्रान्ता, अवयवसंयोगस्यावयविन्य"भावादित्याह--अवयवेति । तेज इति । तेजः संयोगप्रयोज्यत्वं तेजःसंयोगजन्यजातयित्वं वा साध्यमतो न कणादमतेऽवयविस्पर्श अंशतो बाधो न वाऽवयविरूपादौ व्यभिचारः [३] । हेतुरपि प्रतिनियतेन्द्रियग्राह्यजातिमत्पृथिवीगुणत्वमतो न परमाणुस्पर्शे भागासिद्धिर्न वा


  1. कपिकच्छुः शुकशिम्बी, आलकुशीति भाषा । Cowhage इत्यग्लिभाषायाम् ।
  2. चक्षुर्व्यापारविरहोपलक्षकं ।
  3. यथाश्रुतसाध्ये पक्षहेत्वोः पृथिवीपद पृथिवीपरमाणुपमिति न तत्र तत्र बाधव्यभिचारौ ।