पृष्ठम्:न्यायलीलावती.djvu/१९०

एतत् पृष्ठम् परिष्कृतम् अस्ति
११९
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


त्वेनैव रूपादिवदनुमानम् । न चैवं तोयादौ प्रसङ्गः । तज्जा-


भ्यायलीलावतीप्रकाशः

पक्षेतरत्वात् । न च साधनावच्छिन्न साध्यव्यापको रूपवदिन्द्रियग्रा. ह्यगुणत्वव्याप्यजातिमत्त्वमुपाधिस्तुल्ययोगक्षेमत्वात् । न च सन्दिग्धोपाधिः, उक्तविपक्षबाधकाद्धेतोः साध्यव्याप्यत्वेनोपाधेः साध्याव्यापकत्वात् । यद्यपि पाकजस्पर्शो नेतरभेदसाधकः अवयविनि भागासिद्धेः, तथापि पाकजत्वमग्निसंयोगासमवायिकारणकवृत्तिगुणत्वव्याप्यव्याप्यजातिमत्त्वं तथेति संक्षेपः ।

 सा चेयं यदि परमाणुरूपैच स्यात् गन्धोऽतीन्द्रियत्वान्न पृथिवी-

न्यायलीलावतीप्रकाशविकृतिः

प्रसरेणुविभागे व्याभेचार इति ध्येयम् । पक्षेतरत्वादिति । यद्यपि स्पर्शत्वादेरपि व्यावर्त्तनादिदमयुक्तं न च साधनावच्छिन्नमध्ये पक्षमात्रव्यावर्त्तकत्वं तथाविधस्यानुपाधित्वे वायुप्रत्यक्षानुमाने रूपवत्त्वस्यानुपाधितापत्तेस्तथापि साध्यव्यापकताग्राहकमानाभावे तात्पर्यम् । न चेति । तेजोवयविनि साध्याव्याप्तेराह - - साधनावच्छिन्नेत्यादि । साधनव्यापकतापरीहाराय रूपवदित्यादि । सत्तामादाय मास्तु स दोष इति गुणत्वव्याप्येति । रूपभिन्नगुणत्वादिकमादाय तहोषवारणाय जातीति । उक्तेति । सौकुमार्यप्रत्ययानुपपत्यादेरित्यर्थः । तथापीति । गुणत्वमादाय संख्यादावतिव्याप्तिरिति गुणत्वव्याप्यपदम् । स्पर्शत्वमादाय जलस्पर्शेऽतिव्याप्तिरिति द्वितीयव्याप्यपदम् । यद्य व्येवमण्यनुष्णाशीतत्वमादाय वायुस्पर्शे शुक्लत्वमादाय जलरूपे चातिव्याप्तिस्तथापि गुणत्वपदेन स्पर्शत्वमेवोक्तमत एव संयोगशब्दयोरपि नातिव्याप्तिः । मिश्रास्तु गुणत्वपदेन प्रतिनियतेन्द्रियग्राह्यतावच्छेदकजातिरेवोक्ता शब्दातिव्याप्तिवारणाय च मूर्त्तमात्रवृत्तित्वं संयोगविशेषणमिति वदन्ति । परमाणुस्पर्शवायुस्पर्शान्यतरत्वमादायातिव्याप्तिरिति जातीति । उक्तजातिमत्त्वं स्पर्शे पाकजत्वं तद्वत्त्वमितरभेदे हेतुरिति मन्तव्यम् । अणुमनोऽस्वीकारपक्षे अणुमात्रवृत्ति-

न्यायलीलावतीकण्ठाभरणम्

पृथिवीस्पर्शः अग्निसंयोगासमवायिकारणकगुणवृत्तिगुणत्वव्याप्यजातिमान् प्रतिनियतेन्द्रियग्राह्यपृथिवीगुणत्वात् गन्धवत् । अन्यथा