पृष्ठम्:न्यायलीलावती.djvu/१९१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२०
न्यायलीलावती


तीये क्कचिदपि विशेषाप्रतीतेः । तस्मादेभिरेव लक्षणैः पृथिवीतरेभ्यो भियते इति सर्वे रमणीयम् ।

 सा चेयमवयवजन्या न त्वणुसंहतिमात्रम् । स्थूलप्रत्ययस्य


न्यायलीलावतीकण्ठाभरणम्

पिठरे पाकजस्पर्शाभावात् भागासिद्धिः स्यादिति भावः । एभिरिति । पृथिवीत्वगन्धवत्वपाकजस्पर्शवत्त्वादिभिरित्यर्थः । सा चेयं द्विविधेति भाष्ये पृथिवीविभाग उक्तस्तमवयविनि परविप्रति पत्तिं निरस्य समन्वयति- - सा चेयमिति । परमाणुमात्ररूपत्वे गन्धादीनामतीन्द्रियस्वात् न पृथिवीत्वव्यवस्थापकत्वं स्यादित्युपोद्घात इत्य व्याहुः। तथा च स्थूलत्वेन भासमाना पृथिवी द्रव्यसमवेता न तु परमाणुपुञ्जरूपेत्यर्थः । परमाणुः स्वभिन्नोपादेयोपादानं न वा स्पर्शवश्वमणुत्वव्याप्यं न वेति विचारारम्भकः संशयः । इदं स्थूलमिति प्रत्यक्षमेवावयविनि प्रमाणमित्याह - स्थूलेति । स्थौल्यं च परिमाणविशेषः प्रती-

न्यायलीलावतीप्रकाशः

त्वब्यवस्थापक इत्यौपोद्धातिकसङ्गत्याह- - सा चेयमिति । यद्यप्यवयवत्वं द्रव्यसमवायिकारणत्वं सज्जन्यत्वं परेषां परमाणुजन्यपरमाणावस्त्ये. वेति विवादाभावः । न चावयवसमवेतत्वं तत्र, सर्वपृथिवीपक्षीक रणे परमाणौ तदभावात् । तथाप्यवयविवृत्तिजातिमत्त्वं तद्विवक्षितम् । न त्विति । न मनोवदणुमात्रवृत्तिजातिमतीत्यर्थः । अत्र द्रव्यत्वमणुत्वव्याप्यं न वा परमाणु स्वभिन्नोपादेयोपादानं न वेति

न्यायलीलावतीप्रकाश विवृतिः

जातिमत्त्व मप्रसिद्धमित्यन्यथा तामाह - अत्रेति । [ [१] तदभावात् । अवयवसमवेतत्वाभावात् । पार्थिवपरमाणुसमूहः पृथिवी भवत्येवेत्यत आह - न मनोवदिति । ] विधिप्रसिद्धिरणुवृत्तिरूपे निषेधप्रसिद्धिस्तु गुणवृत्तिधर्म्मे । स्वभिन्नेति । स्वपदं पंक्षीभूत परमाणुपरं तद्भिन्नस्य यदुपादेयं तदुपादानमित्यर्थः । परमापवन्तरे विधिप्रसिद्धियतिरेक प्रसिद्धिस्तु तन्मते [ अलीके मन्मते ] गुणादौ । संयोगादेरनभ्युपगमान्न तेन सिद्धसाधनम् ।


  1. [ ] एतचिह्नमध्यस्थपाठो द्विर्शपुस्तके नास्ति । तत्पाठस्तु 'मन्तव्य'मित्यनन्तरमेव युक्त ।