चेन्न, एक [:१]स्थूल इत्यनुभवात् । एक इति विकल्पमात्रमिति चेन्न, अणूनां यथानुभवं निश्चयविषयत्वे अनेकतानिश्चयमसङ्गात् । अयथानुभव [१] तु निश्चय विषयत्वे सर्वत्र प्रत्यक्षोपप्लवसङ्गात् [२] ।दीपशिखा सन्ततावे कत्व निश्चयवत् स्यादिति चेन्न, तत्र वि-
न्यायलीलावतकिण्ठाभरणम्
सामानाधिकरण्यं न प्रतीयेतेत्याह-नेति । अनुभवो वस्तुव्यवस्थाप- कस्तस्यैकप्रमाणत्वात्, विकल्पस्तु वस्त्वननुरोधी न प्रमाणमिति शङ्कते-एक इति । अयं सविकल्पकार्थी निश्चयो निर्विकल्पकानुगतस्तदननुगतो वा । आद्ये निश्चयोऽपि पारमार्थिकानेकत्वविषयः सार्थत्वे त्वेकत्वविषयः । द्वितीये सर्वसविकल्पकानाश्वास एव स्यादित्याह– अणूनामिति । नन्वनेकत्रापि एकत्वधीः प्रदीपसन्ततौ दृष्टा, तद्वदियमपि एकत्वधीः स्यादित्याह- दीपेति। परिमाणभेदेन तत्राश्रयभेदस्थितावेकत्वधीर्विरुद्धधर्म्माध्यस्तविषयेति सा भ्रान्ता प्रकृते विरुद्धाभ्यासो नास्तीति परिहारमाह - नेति । न चैकत्वधीरसत्.
न्यायलीलावती प्रकाशः
युक्त्यन्तराभिधानार्थमवतारयति - स्थूलेति । एक इति । नन्वेकः स्थूल इति ज्ञानमसत्ख्यातिः समूहव्यावृत्तस्यैकत्वस्य काव्यसिद्धेः एको धान्यराशिरितिज्ञानवत् त्वयापि भ्रमरूपमेवेदं वाच्यम्, अवयवावबयविसमूहस्यानेकत्वात् । अत्राहुः । तव समूहभिन्नज्ञान एव एकत्वमस्तीति नासत्ख्यातिः, बाधकस्य निराकरिष्यमाणत्वात्, मम चावयवावयविसमूहेऽध्येकोऽत्रयवी स्थूलोऽस्ति न त्वदभिमते परमाणाविति वैषम्यम् । 'यथानुभवं यथा निर्विकल्पकं 'निश्चयः' सविकरूपकं तस्यैव निर्व्विवकल्पकव्यवस्थापकत्वादित्यर्थः । अनावृतवृत्तिरवयवी यद्यावृतवृत्तिः स्यादनावृतवृत्तिर्भ स्यादित्यादयस्तर्का आक्ष्रयासिद्धिविपर्यया पर्यवसानात् दुष्टा इति स्फुटतयोपेक्ष्यान्य
न्यायलीलावतीप्रकाशविकृतिः
यद्यप्येक इति विकल्पमात्रमित्यप्रेतनमूलपरेयमाशङ्कन तथापि निर्विकल्पकान पेक्षमेवेदमसत्ख्यातिरूपं शशशृङ्गप्रतीतिवदित्यधुना शङ्काचिषयः । ज्ञान इत्युपलक्षण मे कपरमाणावित्यपि द्रष्टव्यम् । एकत्वप्रसिद्धावपि विशिष्टस्यालीकत्वात् असतूंख्यातित्वं स्यादित्यत