पृष्ठम्:न्यायलीलावती.djvu/१९७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२३
न्यायलीलावती


एव । द्वितीयं तु तत्परिमाणं परिमाणसामान्यविशेषो वा अभिव्यञ्जक भूयोऽवयवेन्द्रिय सन्निकर्षमोषान्न प्रतीयते, न त्ववयविन आवरणात् । अवयवि[स्व]रूपावभासेऽप्यनावरणदशावदर्धावरणेऽपि द्विहस्तत्रिहस्तत्वादिकं [१] प्रतीयेतेति चेन्न, द्विहस्तावच्छेद्यपरिमाणसमवायो वा तथाविधावयवसमवायो वा । अवयविनो द्विहस्तत्रिहस्तादि [२] धर्मभूतं न धर्मिमात्ररूपम् [३]

न्यायलीलावतीकण्ठाभरणम्

दीर्घत्वोपलम्ममापादयति पूर्व्वपक्षी - अवयवीति । अत्रापि पूर्व्ववत्दभ समाधिमाह - - नेति । वस्तुतो विशिष्टमहत्त्वदीर्घत्वग्रहे तत्रावरकद्रव्यसंयोग एव प्रतिबन्धकस्तेन भूयस्त्वं यावत्त्वं बहुत्वं वेति विक-

न्यायलीलावतीप्रकाशः

भूयस्त्वेन तद्विशेष्यमित्याह - भूयोऽवयवेति । ननु भूयस्त्वं यदि यावस्वं तदा व्यवहितकिञ्चिदवयवस्यापि अवयविनो न ग्रहः स्यात् बहुत्वमात्रस्य तत्त्वे नाना स्थाने परमाणुमात्रानन्तरितोऽव्यवयवी गृह्येत । अत्राहुः । तादृशावरकद्रव्यमेव तत्रावयविग्रहप्रतिबन्धकं कारणान्तरविलम्बेन कार्यानुत्पत्तौ कारणत्वस्या प्रत्यृहत्वात् । नन्वनावरणदशावत द्विहस्तत्वादिजातिमत्परिमाणविशिष्टस्यावयविनो ग्रहप्रसङ्ग इत्याह --अवयविरूपेति । पूर्व्वे स्थौल्यपदेन महत्त्वं परिमाणमुक्तमधुना दीर्घत्वमाह - द्विहस्तेति । अवयविग्रहे तत्परिमाणग्रहे च तद्गतजातिविशेषस्य तावद्वयवग्रहब्यङ्गयतया तदभावादेवाग्रह इत्याह — द्विहस्तेति । नन्ववयवेषु कम्पमानेषु यद्यकम्पोऽवयवी तदा

न्यायलीलावतीप्रकाशविवृतिः

द्धस्यत्येर्थ: । अवयविन इत्युपलक्षणं तत्परिमाणस्य चेत्यपि द्रष्टत्यम् । तादृशेति । यद्यपि सामग्रीवशादेव यत्र नानापरमाण्ववच्छेदेन संयोगस्तत्र प्रतिबन्धका भावावयविग्रहापत्तिस्तथापि नानापरमाण्ववच्छेदन संयोगेन स्थूलावयवावच्छेदेनापि संयोगो विना प्रतिवन्धकमावश्यक इति भावः । वस्तुतः स्थूलावयवावच्छेन संयोगे है-


  1. द्विहस्तत्वैकह० ।
  2. द्विहस्तादिकं ध ।
  3. धर्म्मिस्वरूपम् ।