पृष्ठम्:न्यायलीलावती.djvu/२०१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३०
न्यायलीलावती


द्यत्वं वा । नाद्यौ । असिद्धेः । न तृतीयः । महारजनस्यैकस्योभयावच्छेदकत्वात् । न तुरीयः । ज्ञानस्यैवोभयावच्छेद्यत्वात् । किञ्चिदेव केनचिन्निरूप्यते स्वरूपनियमादिति चेतु- ल्यम् । (यदि) भावाभावावेकेनैव निरूप्येते सर्वेषामेव भावाभावानामेकदेशनिरूप्यत्वं भवेदिति चेन्न, भावाभाववैचित्र्या


न्यायलीलावतीकण्ठाभरणम्

यावच्छेद्यं वा न भवतीति विकल्पार्थः । नाद्याविति । संयोगात्यन्ताभावस्य समवेतत्वजन्यत्वयोरनभ्युपगमात् । महारजनस्येति । महारजनं हि संयोग साक्षादवच्छिनत्ति संयोगद्वारा च तदभावमपीत्यर्थः । संयोगतदभावाविहेति समूहालम्बनज्ञानमुभयावच्छेद्यमेवेत्याह--- ज्ञानस्येति । ज्ञानं विषयी धर्म्मः स च उभाभ्यां विरुद्धाभ्यामप्यवच्छेत्तुं शक्यः, न त्वेकः पटो महारजनतत्संयोगाभ्यामित्याह-- किं चिदेवेति । अनुभवो ह्यत्र नियामकः, स च यथा ज्ञाने तथा संयोगतदभाववद्धर्मिमण्यपि पटादावित्याह- तुल्यमिति । संयोगस्य स्वाभावसामानाधिकरण्यं तथा रूपरसादेरपि स्यादिति शङ्कते - सर्वेषामिति । न ह्येकं वस्तु यथा तथाऽन्यदपीति नियमस्तथा सति जगद्वैचित्र्यमुच्छिद्येतेत्याह - नेति ।

न्यायलीलावतीप्रकाशः

तेऽनेनेति विरोधो विरुद्धधर्माध्यासः । 'अवच्छेदकत्वं' विशेषणत्वम् । 'उभयं' संयोगस्तदभावश्च । 'अवच्छेद्यत्वं' विशेष्यत्वम् । असिद्धेरिति । अभावस्य समवायनिषेधात् संयोगात्यन्ताभावस्याजन्यत्वादित्यर्थः । ज्ञानस्यति । संयोगतदभावविषयस्येत्यर्थः । भवतु ज्ञानस्योभयनिरूप्यत्वं न त्वर्थान्तरस्येत्याह - किञ्चिदेवेति । तुल्यमिति । दर्शनस्योभयत्राविशेषादित्यर्थः । एकेनेति । आश्रयेणेत्यर्थः । कुतो विशेषात संयोगात्यन्ताभावः प्रतियोगिसमानाश्रयो न रूपाद्यत्यन्ताभाव इत्याह - सर्वेषामिति । रूपाद्यभावानामित्यर्थः । अभावत्वाविशेषेऽपि यथा कश्चिदन्योन्याभावः कश्चित्संसर्गाभावः, तथा प्रतियोगिभेदादेवात्रापि व्यवस्थेत्याह-- वैचित्र्यादिति ।

न्याय लीलावतीप्रकाशविवृतिः

रूपाद्यभावानामिति । रूपादितदभावानामित्यर्थः । गङ्गाजलादौ शुक्ल-