पृष्ठम्:न्यायलीलावती.djvu/२०३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३२
न्यायलीलावती


नीलिमापि तर्हि प्रतीयेत, घटादाविव तेजोमध्यवर्तिनीति चेन्न, पित्ताभिभूततेजसः श्वैत्यवन्नीलिम्नोऽप्यप्रतीतेरुपपत्तेः । स्फटिकादिवद्वा ।

 नापि मधुर एवं रसो, नियामकाभावात् । तिक्ता-


न्यायलीलावती कण्ठाभरणम्

वास्तवश्चेत् नीलिमैव जले तदा सोऽपि वियति प्रतीयते । न हि तेजोरूपेण नीलिम्नोऽभिभवो नीले घटादौ दृश्यते इत्याह - - नीलिमापीति । ग्राहकदोषादपि तदा नीलिमोपलभ्यते इति स्यादित्याह --पित्तति । यथा पित्ताभिभूतनायनतेजसा पुरुषेण तेजःश्वैत्यं वास्तवमपि नोपलभ्यते, तथा नीलिमापि कुतश्चित करणदोषान्नोपलभ्यत इत्यर्थः । ग्राहकदोषमभिधाय ग्राह्यगतमाह - स्फटिकादीति ।

 अपां मधुर एव रस इत्याक्षिपति - नापीति । नियामकेति । मधुरं जलमिति लौकिक प्रतीत्यभावादित्यर्थः । ननु रसवत्त्वे सति तिक्तादिसत्तया ऽनुपलभ्यमानत्वादेव माधुर्ये स्यादित्याह-तिसादीति । तर्हि वैपरीत्ये

न्यायलीलावतीप्रकाशः

निष्ठतयाऽवभासते स उपाधिः, यथा जपाकुसुमं स्फटिक इति तेज एवोपाधिः, तथापि योऽन्य धर्मोऽन्यगतत्वेन भासते स उपाधिरिति मतमाश्रित्य धवलिमैवोपाधिरुक्तः । घटादाविति । नीलिमवतीति शेषः । विचित्रस्वभावत्वाद्वस्तूनां क्कचिदनभिभवेऽपि कचिदभिभवः [१]स्यादित्याह – पित्तेति । स्फटिकेति । जवाकुसुमसन्निधौ स्फटिकवैत्याभिभववत्, अत्रापि नीलिमाभिभव इत्यर्थ: । दोषाणां करणगतत्व विषयगतत्वभेदेन प्रकारद्वयमुक्तम् । नियामकेति । जले रसो नानुभूयत एव । यदि च शर्करावन्माधुर्याननुभवेऽपि तिक्तादिवैलक्षण्यान्माधुर्ये तदा शर्करामाधुर्यवैधर्म्यात्तिकत्वमेव रसस्य किं न स्यादित्यर्थः ।

न्यायलीलावतीप्रकाशविवृतिः

भवादन्यत्र विषयाभिभवाद् दृष्टान्तदान्तिकवैषम्यादभिभवक्काचित्कतामात्रेण दृष्टान्ततेत्याशयेनाह --विचित्रेति । ननु यस्यामेवोल्ब-


  1. “अभिभवश्च नाम मन्दस्य पटीयसो ग्रहणादग्रहण"मिति न्यायवार्त्तिकम् (२।२।१४) । "अभिभवश्च बलवत्सजातीयसम्बन्ध" इति तत्त्वचिन्तामणौ प्रत्यज्ञखण्डम् (०४५ पृ०)