पृष्ठम्:न्यायलीलावती.djvu/२०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३३
न्यायलीलावतकण्ठाभरण-सविवृप्रकाशोद्भासिता


दिविलक्षणवेदनमेव माधुर्यवेदनमिति चेन्न, मधुरत्वा [१] दिविपरीत [२] वेदनमेव हि तिक्ता दिवेदनमित्यपि तुल्यत्वात् । क्वचिदुरवणतापि स्यादिति चेत् तुल्यं मधुरतायामपि । षड्विपरीतवेदनेऽरसत्वमेव स्यादिति चेन्न, अनुष्णाशीतस्पर्शव- त्सप्तमेनाप्युपपत्तेः । जम्बीरकरवीररसादावम्लतिक्तवेदनाच्च ।

न्यायलीलावतीकण्ठाभरणम्

किमुत्तरमित्याह --मधुरादीति । क्वचिदिति । जलत्वस्य तिक्तरससमानाधिकरणत्वे स्फुटतरतिक्तरससामानाधिकरण्यं स्यादित्यर्थ: । ननु तिक्तादिकं तावन्नोपलभ्यत इत्युभयसिद्धं माधुर्य्यमपि जले यदि न स्यात्तदा नीरसमेव तत् स्यादित्याह - षडिति । यथा शीतोष्णस्पर्शयोरनुपलम्भेऽपि अनुष्णाशीतस्पर्शवती पृथिवी तथा माधुर्य्यादीनामपि अनुपलम्भेऽपि जलं विलक्षणरसवदेव स्यादित्याह- - नेति । मधुररसवत्त्वे तिक्तादिविलक्षणवेदनस्य हेतावसिद्धिमाह -- जम्बीरेति । यद्वा क्वचिदुल्वणतापि स्यादित्यत्र इष्टापत्तिमाह - - जम्बीरेति । यज्जातीयं क्वचित् यद्भाववत्तज्जातीयं सर्व्वमेव यदि तदभाववत्तदा दोषमाह- न्यायलीलावतीप्रकाशः क्वचिदिति । जलत्वं यदि तिक्तरससमानाधिकरणद्रव्यत्वसाक्षाव्घाव्यजातिः स्यात्, उल्बण [३] तिक्तरससमानाधिकरणं स्यादित्यर्थः । अनुष्णाशीतेति । आतिरेक्यमात्रे दृष्टान्तः, न तु सप्तमत्वेऽपि तात्पर्यम् ।

न्यायलीलावतीप्रकाशविवृति:

णतिक्तरसस्तस्यामेवोल्बणतिक्तरसवत्वमापाद्यं तज्जातीयायां वा । आद्येऽसम्भव एव । अन्त्ये सत्तामादाय सिद्धसाधनमत आह-- जलत्वमिति । आत्मत्वे व्यभिचार इति समानाधिकरणान्तम् । तत्रापि स्वमते जलत्वे व्यभिचार इति तिक्तपदम् । रसपदं स्फुटार्थम् । अनुल्बणतिक्तरसवन्मात्रवृत्तिजातौ व्यभिचार इति साक्षात्पदम् । अनुल्बणतिक्तरसवदात्मा न्यतरत्वे व्यभिचार इति जातिपदम । इदं चापादनं स्वमतावष्टम्भेनान्यथा तन्मते करवीररसादिवृत्तित्वेनेष्टापत्तेरित्यवधेयम् । आपादकं पूरयति- - यदीति । वायौ व्यभिचारान्न


  1. मधुरादिवि० ।
  2. विलक्ष गवे ।
  3. "स्पष्टं स्फुटमव्यक्त मुल्वण" मित्यमरः ।