स्वाश्रयमत्यासत्त्या तदुपलम्भ इति चेत् [१], आप्यत्वे बाधकाभावात् । अन्यत्र तद्विरहेणैवापामुपलम्भादिति चेन्न, पृथिव्या
अपि मधुरताया आप्यत्वापत्तेः । अन्यत्र तद्विरहेणैव क्षितरुपलम्भात् । स्नेहवत् ।
नापि शीत एव स्पर्शः । मध्यन्दिने जलस्यौपण्यस्योपलम्भात् । तैजसं तदौष्ण्यमिति चेन्न, रूपाध्यक्षताव्याप्यत्वात् [२] स्पर्शप्रत्यक्षतायाः [३] । वारिस्थतेजोरूपं
न्यायलीलावतीकण्ठाभरणम्
पृथिव्या अपीति । स्नेहवदिति । स्नेहविनाकृता घटादिरूपा पृथिवीति यथा घृतादौ स्नेह औपाधिक इत्यर्थः ।
तैजसमिति । अनुद्भूतरूपोद्भूतस्पर्शे वारिस्थं यत्तेजस्तदौपाधिकमित्यर्थः । स्पर्शाध्यक्षताया इति । तेजःस्पर्शाध्यक्षताया इत्यर्थः ।
न्यायलीलावतीप्रकाशः
स्वाश्रयेति । संयुक्ताम्लादिरसाश्रयपार्थिवौपाधिकी तत्प्रतीतिरित्यर्थः । तद्विरहेणेति । अम्लादिव्यतिरेकेणेत्यर्थः । यज्जातीयं यद्व्यतिरेकेणोपलभ्यते तज्जातीयस्य तद्वत्वं यद्यौपाधिकं तदायं दोष इत्याह-- पृथिव्या अपीति । स्नेहवदिति । तैलादिस्नेहवदित्यर्थः । एतच्च सिद्धान्तिमतमाश्रित्योक्तं 'घृतेऽपि दर्शना'दित्यनेनाग्रे स्नेहस्यापि पार्थिवत्वेनाक्षेप्यत्वात् ।
अनुभूतरूपोद्भूतस्पर्श वारिस्थं तेजस्तदीयः स्पर्शो वारिस्थत्वेनानुभूयत इत्याह - तैजसमिति । रूपाध्यक्षत्वेति । एतच्च शीतोघ्ण [४] भिन्न स्पर्शस्याभावात् निःस्पर्शो वायुरिति मतमाश्रित्योक्तम् ।
न्यायलीलावतीप्रकाशविवृतिः
मूलोकव्याप्तिः सङ्गच्छतेऽत आह - - एतच्चेति । आदिरिति । प्रथमभाग