पृष्ठम्:न्यायलीलावती.djvu/२०६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३५
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


प्रत्यक्षमिति चेन्न, तिमिरे उष्णोदकचाक्षुषतापत्तेः । तदा क्कचित्स्वभावतोऽप्युष्णतोपलभ्येतेति चेन्न, कनकादिद्रवत्ववत् नैमित्तिकत्वेनाप्युपपत्तेः । रूपस्य तेजः संयोगाजन्यत्वे कथं स्पर्शस्येति चेन्न, रूपस्य तादृशत्वे द्रवत्वेऽपि तुल्यत्वात् ।

 नापि स्वाभाविकं द्रवत्वम् । करकादावभावात् । अस्त्येव त-


न्यायलीलावतीकण्ठाभरणम्

उष्मा च न तेज इति भावः । तिमिर इति । उद्भूतरूपस्य तेजसो नयनसहकारित्वसम्भवादित्यर्थः । तदेति । यदि स्वाभाविकमौष्ण्यं जले स्यादित्यर्थः । कनकेति । निमित्ताधीनोत्पत्तिकतया निमित्तकादाचित्कत्वात् स्पर्शोत्पत्तेश्च कादाचित् कत्वमित्यर्थः । ननु यत्र रूपं तेजः- संयोगजन्यं तत्रैव स्पर्शोऽपि तथा, पृथिव्यां तथा दर्शनादिति कथं जलस्य स्पर्शमात्रं तेजःसंयोगजन्यं स्यादित्याह - रूपस्येति । कथं स्पर्शस्येति । तेजः संयोगजन्यत्वमिति शेषः । तर्हि रूपं सुवर्णे न तेजः- संयोगजन्यमिति द्रवत्वमपि तादृशं न स्यादित्याह- - रूपस्येति । करकादा-

न्यायलीलावतीप्रकाशः

यद्वा तैजसत्वेन विशेषणीयम् । तदेति । यदि स्वाभाविकमौष्ण्यमित्यादिः । 'स्वभावतः' तेजःसम्बन्धं त्रिनेत्यर्थः । यथा कनक घृतद्रवत्वं तेजःसम्बन्धं विनाऽनुपपद्यमानमपि स्वाभाविकं तथा जलस्यौष्ण्यमपीत्याह - कनकादीति । स्पर्शपाकजत्वं समानाधिकरणरूपपाकजत्वव्याप्त[१] मित्याह - -रूपस्येति । विपक्षे बाधकाभावेन प्रतिवन्दीमाह -- रूपस्येति । 'तादृशत्वे' पाकजत्वे । एवं कनकरूपस्यापाकजत्वे द्रवत्वमपि तथा स्यादित्यर्थः । किं च श्रीखण्डेपि शीतस्पर्श उपलभ्यते । न चाघृष्टस्यानुष्णाशीतत्वानुभवादपामेव स इति वाच्यम्, जलसंयो-

न्यायलीलावतीप्रकाशविवृतिः

इत्यर्थः। समानाधिकरणेति । अत्र समानाधिकरणपदं स्फुटार्थं व्याव्यपदेनेव तल्लाभात् । यद्वा व्याप्यपदं कालिकव्याप्याश्रयपरमिति सामानाधिकरण्यलाभायैतत्पदम् । अपीति । अत इत्यर्थः ।


  1. पाकजरूपसामानाधिकरण्यव्याप्तमित्यर्थः । पाकजस्पर्शः पाकजरूपन्याप्त इति तु फलितार्थः । इति दीधितिः ।