मानाभावादिति मुकीभव । जलमेतन्न पृथिवीति चेन्न, घृतमेतन्न पृथिवीत्यत्रापि तुल्यत्वात् । मैवम् । शुक्लमेव रूपमभास्वरमपां
न्यायलीलावतकण्ठाभरणम्
साधारणी जातिरिति चेन्न, जलपरमाणोः पक्षत्वे तत्र जलत्वस्यैवाभावात् । परमाणुमात्रपक्षत्वे मनसि भागबाधात् स्नेहवन्मात्रवृत्तिसंयोगासमवायिकारणता च स्पर्शवन्मात्रवृत्तिसंयोगासमवायिकारणतावदतिप्रसक्ता । अन्यथा चतुष्टयसाधारणी एका जातिः स्यादिति भावः । शुक्लमेवेति । औष्ण्यासमानाधिकरणशुक्लमांत्र रूप समानाधिकरणद्रव्यत्वसाक्षाड्याप्यजातिमत्त्वं नीलासमानाधिकरणभास्वरशुक्लरूपसमानाधिकरणद्रव्यत्वसाक्षाव्याप्यजातिमत्वं वा जलत्वमित्यर्थः । तथा च स्फटिकादावतिव्याप्तिः । कालिन्दीजलादौ नैल्यमेव
न्यायलीलावतीप्रकाशः
र्शात् तत्र जलत्वानुमानं सांसिद्धिकद्रवत्वाभावेन तत्प्रतिरोधात । नापि [१] स्नेहसमवायिकारणत्वावच्छेदकत्वाज्जलावयविनि तत्सिद्धौ जलपरमाणी स्थोपादेयवृत्तिद्रव्यत्व साक्षाध्याप्यजातिमत्त्व मनु मेयं स्नेहत्वस्य कार्याकार्यवृत्तितया कार्यतानवच्छेदकत्वात् । नापि स्नेहवन्मात्रवृत्तिसंयोगसमवायिकारणतया तसिद्धिः, स्पर्शवन्मात्रवृत्तिसंयोगसमवायिकारणतयापि जात्यापत्तेरिति भावः । शुक्लमेवेति । न च स्फटिकेऽतिव्याप्तिः [२]
अपाकजत्वेन विशेषणेऽपि पार्थिवावयविनि व्यभिचार इति वाच्यम्, अभास्वरशुक्लरूपभिन्नरूपसमानाधिकरणद्रव्यत्वव्याप्यजात्यनाधारत्वे सति रूपवत्वस्य विवक्षित-
न्यायलीलावती प्रकाशविवृतिः
करकायामपीत्यर्थः । स्नेहत्वस्येति । न चानित्यस्त्रेहत्वं तथास्त्विति वाच्यम् एवमपि परमाणुसाधारण्यायास्तस्या असिद्धेः तस्य नित्यत्वे योग ( ग्य ? ) त्वे फलोपधानावश्यम्भावापत्तेरिति भावः । अभास्वरेति । तेजस्थतिव्याप्तिवारणायं प्रथमविशेषणम् । पृथिव्याम
- ↑ परमाणुवृत्तित्वं निराकररोति-नापीत्या दिना। आरम्भकत्वादनु मेयम् । वस्तुतः क्षितिपयसोर्भेदासिद्धौ घृतत्वांदरिव जलत्वस्यापि न द्रव्यत्वसाक्षाद्व्याप्यत्व सिद्धिः । अतएव प्रत्यक्षस्य जलत्वस्य जन्यवृत्तिद्रव्यत्वसाक्षादप्याजातित्वेन न परमाणुवृत्तित्वानुमानमिति ध्येयम् । इति दीधितिः।
- ↑ स्फटिकपरमाणावतिव्याप्ति । इत्यपि पाठः ।