पृष्ठम्:न्यायलीलावती.djvu/२१०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३९
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


लक्षणमिति । न च तेजसा नीलिमाभिभवः | घटादावभावात् । न च स्वाच्छयोगात् स्फटिकवदिति वाच्यम्, इन्द्रनीलादावभावात् । रसोऽपि मधुर एव । काषाय [१] द्रव्येण जलमाधुर्यस्योपलम्भा-


न्यायलीलावती कण्ठाभरणम्

प्राकृतं रूपं तच्च वियति विक्षिप्ततेजोरूपाभिभूतमिति यत् परेणोक्तं तत् दूषयति - न चेति । एवं सति घटनैल्यमपि तेजोरूपेणाभिभूयेतेत्यर्थः । स्वच्छस्यैव द्रव्यस्य तेजोरूपेण रूपमभिभूयते न तु घटादेरपीति शङ्कते----न चेति । इन्द्रनीलेति । सूर्थ्यालोकानभिभाव्यतायाम स्वच्छत्वमु पाधिरिन्द्रनीलरूपे साध्याव्यापक इत्यर्थः । एवं च प्रदीपप्रभयोत्पलनैल्याभि ऽपि न दोषः । रसोऽपीति । तिक्तरसासमानाधिकरणमधुररस

न्यायलीलावतीप्रकाशः

त्वात् । व्योमक्षिप्तकालिन्दीजलनीलिम्नस्तेजोरूपेणाभिभव इति दूषयति-- न चेति । अत्र सूर्यालोकेन नीलरूपं नाभिभूयत इति विशिष्य व्याप्तिः, प्रदीपप्रभया नीलोत्पलनीलिम्नोऽभिभवात्सामान्यतो व्यभिचारात् । न च विशेषव्याप्तावण्यं स्वच्छत्वमुपाधिः साध्याव्यापकत्वादित्याह- --न चेति । रसोऽपीति । न च शर्करायां व्यभिचारः अपाकजत्वेन पूर्ववद्विशेषणत्वादिति वाच्यम्, मधुररसभिन्नरसस-

न्यायलीलावती प्रकाशविवृतिः

तिव्याप्तिवारणाय शुक्लेति । रसादिकमादाय जलेऽसम्भववारणाय भिन्नपदोत्तररूपपदम् । द्रव्यत्वमादाय तद्वारणाय द्रव्यत्वव्याप्येति । पृथिवीजलान्यतरत्वमादाय तद्वारणाय जातीति । प्रदीपेति । न च प्रदीपस्याव्यञ्जकत्वमात्रं न त्वभिभावकत्वं 'प्रदीपैव्यंज्यते जातिर्न तु नीरजनीलिमेत्यभिधानादिति वाच्यम्, तथा सति दीपालोकमध्यवर्त्तिनीरजनीलिम्नश्चन्द्रालोकेन प्रकाशापत्तेः । अनभिभूतस्यै वाभिभावकत्वमतो न प्रदीपसन्निधाने दिवापि तद्नुपलम्भ [२] इति भावः । साघ्याव्यापकत्वादिति । सूर्यालोकानभिभाव्यत्वलक्षणसाध्यस्येन्द्रनीलवृत्तिरूपे सत्त्वादुपाधेश्चासत्त्वादित्यर्थः । पूर्ववदिति । तद्विशेषणेऽपि पार्थिवावयविनि व्यभिचारादित्यर्थः । मधुरेति । जलत्वमा-


  1. कषायद्र० ।
  2. तदुपलम्भ इ० ।