पृष्ठम्:न्यायलीलावती.djvu/२११

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४०
न्यायलीलावती


त् । तथा हि स्नातकस्य हरीतकीरसस्वादानन्तरं [१] वाराणसीपरिसरे कमण्डलुपरिस्खलद मलजाह्नवीजल [२] विमलधारासु म


न्यायलीलावतीकण्ठाभरणम्

समानाधिकरणद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वमित्यर्थः । स्वरूपासिद्धिमाशङ्क्याह – कषायेति । नन्वेवं रसनमाप्यं रूपादिषु मध्ये रसस्यैव व्यञ्जकत्वात् सक्तुरमाभिव्यञ्जकजलवदित्यनुमानं कषायद्रव्येण व्यभिचारात् भज्येत । न च स्वीय रूपव्यञ्जकत्वान्न व्यभिचार इति वाच्यम्, तथा च दृष्टान्ते साध्य वैकल्यापत्तिः । मैवं पार्थिवरसाभिव्यञ्जकत्वस्य हेतुविशेषणत्वेनाभिमतत्वात् । न च कषायद्रव्यं पार्थिवं रसमभिव्यनक्कीति न तेन व्यभिचारः । न च कर्कटीभक्षणानन्तरं जलं तैक्त्यमु-

न्यायलीलावतीप्रकाशः

मानाधिकरणद्रव्यत्वव्याप्यजात्यनाधारत्वे सति रसवत्वस्य विवक्षणात् । योग्यानुपलब्धिबाधं निरस्यति - कषायेति । नन्वेवं रूपाद्यव्यञ्जकत्वे सति रसव्यञ्जकत्वं रसनाप्यत्वसाधकं कषायद्रव्य एव व्यभिचरेत् । न च स्वीयरूपव्यञ्जकत्वात्तत्र हेत्वभावः, सक्तुरसाभिव्यञ्जकोदकस्यापि स्वीय रूपव्यञ्जकत्वाद् दृष्टान्तस्य साधनवैकल्यापत्तेः । पररूपाव्यञ्जकत्वं तत्रापि समानम् । न च कषायद्रव्यं जलरसोत्पादकं मधुररसस्य सकलजलसाधारण्याभावापत्तेः । कर्कटीभक्षणानन्तरं जलपाने तिक्तरसस्यानुभवात्तत्र तिक्तरसस्याप्याप-

न्यायलीलावती प्रकाशविवृति:

दायासम्भववारणाय भिन्नान्तम् । द्रव्यत्वभादाय तद्वारणाय द्रव्यत्वव्याप्यमिति । क्वचित्साक्षात्पदमस्ति तत्र जातित्वावाच्छिन्नाधारत्वं न विचक्षणीयमपि तु यत्किञ्चित्तादृशजात्यनाधारत्वमिति । शर्करादावतिव्याप्तिवारणाप तत्पदमिति ध्येयम् । रूपादीति । आदिपदं स्पर्शाद्यव्यञ्जकत्वगर्भाहेत्वन्तरावाप्तये । पररूपेति । यद्यपि लुप्ताक्षरमसीनीलिम्नि जलस्य व्यञ्जकतया दृष्टान्तत्वमेवमण्ययुक्तमेवेति वायम् (१) षटादिरूपाव्यजकत्व (स्य?) विशिष्यैवो [३] पादानात् केचित्तु [४]


  1. हरीतकीस्वादा० ।
  2. जलाविरलधा० ।
  3. त्वस्य तत्रैवोपा० ।
  4. कश्चित्तु ।