पृष्ठम्:न्यायलीलावती.djvu/२१२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४१
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


धुराकारा मनीषोन्मिषति । न च कषायद्रव्यस्यैव तत् । रसा-


न्यायलीलावतीप्रकाशः

त्तेः । अत्राहुः । रसनाप्यत्वसाधके पार्थिवरसाभिव्यञ्जकत्वं साधकमतो न जलरसव्यञ्जककषायद्रव्येण व्यभिचारः । कषायद्रव्यान्यत्वेन वा हेतुर्विशेष्यः । तिक्तरसश्च कर्कट्या एव केवलेऽपि कर्कटीफले तिक्त्ततोपलम्भात् । तदेकदेशे तिक्ततोपलम्भात् अवयवरसजातीयस्यावयविनि वृत्तेः । यद्वा कर्कटीभक्षणेन रसनाग्रवर्त्तिपित्तक्षोभः क्रियते तदीयतिक्तत्वं तत्रोपलभ्यत इति वैद्यकादवगतमत एव जलपानं विनापि तत्र तिक्ततोपलम्भः । मधुरा हरीतकीत्यनुभवात् तदीय एव मधुररसोऽनुभूयते न जलस्येत्यपि नास्ति । स्वरूपयोग्यहरीत कीरसान्तराणामपि रसनेन संयुक्त समवाया विशेषात्तद्रहापत्तेः, सामग्रीसत्वेऽपि कार्याभावस्य व्याहतत्वादित्याह - न चेति ।

न्यायलीलावतीप्रकाशविवृतिः

पररूपस्पर्शाव्यञ्जकत्वमेव हेतुर्न च रूपपदव्यर्थता अखण्डाभावादित्याहुः [] । पार्थिवेति । अत्रापि परपदं प्रवेश्यमन्यथा स्वीय रसव्यञ्जकतया व्यभिचारतादवस्थ्यात् । द्रव्यत्वं च हेतौ प्रवेशनीयमन्यथा सन्निकर्षे व्यभिचारात् । न चेदमन्योन्याश्रयग्रस्तं रसनाप्य [] साधकस्य हेतुत्वानुपपत्त्या हि परेण जलनीरसत्वं साध्यते । तथा च जले रसवत्त्वसिद्धौ पार्थिवत्वं हेतोर्विशेषणमन्यथा व्यावर्त्त्याप्रात्त्यासिद्धेस्तद्विशेषणे च हेतुत्वानुपपत्तिलक्षणबाधकनिरासे जले रसवत्त्वसिद्धिरिति वाच्यम्, रसत्वावच्छिन्नव्यञ्जकत्वहेतौ तात्पर्यात् । अवच्छिन्नत्वावेशेषणादेव नोपनीतज्ञान मादायान्यन्त्र व्यभिचारः । तत्र ज्ञातत्वस्य व्यञ्चकता [] वच्छेदकत्वात् जले सक्तुरसत्वस्य तथात्वेन रसत्वस्या- पि तथात्वादिति मिश्राः । वस्तुतस्त्वनयैवारुच्याह -- कषायेति । मिष्टकर्कटीभक्षणे न तदुपलम्भ इत्यत आह - तदेकदेश इति । वृन्तसन्निहितावयव इत्यर्थः । तथाप्यवयविनि किमायातमत आह-अवयवेति । नन्ववयवान्तरस्य मधुररसवत्वावयवी तत्र नीरसक्ष्चिवरसवान् वा स्वीकरणीय इत्यवयवान्तरभक्षणे कथं तिक्त्ततोपलम्भ इत्यरुचेराह -यद्वेति । तदीय एवेति । तदीय एवेत्यवयवरसेन परम्परासम्ब-


  1. इत्याह ।
  2. व्यत्वसा० ।
  3. व्यङ्गञ्चताव० ।