पृष्ठम्:न्यायलीलावती.djvu/२१३

एतत् पृष्ठम् परिष्कृतम् अस्ति
९४२
न्यायलीलावती


न्तराणामप्युपलम्भापत्तेः । न च जलेनैव तत्र माधुर्यमुत्पाद्यते ।


न्यायलीलावतीकण्ठाभरणम्

पलभ्यत इति तिक्तमपि जलं स्यादिति वाच्यम्, तैक्त्यस्य कर्कटीगतत्वेन पूर्वमप्युपलम्भात् । रसनाप्रवर्त्तिक्षुभिततिक्तभागस्यैव वा तत् तैक्त्यम् । न च जलेनैवेति । अग्निसंयोगस्यैव सत्यवयविनि परमाणौ वा

न्यायलीलावतीप्रकाशः

एतच्च हरीतक्यवयवानां नानारसरसत्वमभ्युपेत्योक्तं न तु हरीतक्या- मेवाव्याप्यवृत्तिनानारससमवायः व्याप्यवृत्तिजातीयताविरोधात् । न च षड्सा हरीतकीतिव्यवहारात्तत्र चित्र एव रसः, गुणविरोधेनाऽवयविनि नानारसैरनारम्भात् । चित्ररूपावयविनि तु नीरूपत्वेनाप्रत्यक्षतापत्तेरनन्यगत्या तथा स्वीकारात | विजातीयरूपासहकृतस्यैव नीलादेर्नीलाद्यारम्भकत्वात् गुणविरोधाभावात् । अत्र त्ववयविनो नीरसत्वे बाधकाभावात्, रसनस्य द्रव्याग्राहकत्वात्, षड्सव्यवहारस्य च तत्तद्रसकार्य्यजनकत्वेन गौणत्वात् । ननु मधुररसमात्राधिकरणद्रव्यान्तरोत्पादात् विलक्षणरसोत्पत्तौ रसान्तराणामभि भूतत्वाद्वा नोक्तदोष इत्याशयेनाह - न चेति । द्रव्यान्तरे तावन्माना-

न्यायलीलावतीप्रकाशविवृतिः

न्धादुक्तम् । एवमग्रेऽपि हरीतकीर सेत्यत्र । इदं च हरीतक्यवयनामित्याद्या करेऽनुपदमेव व्यक्तीभविष्यतीति भावः । अव्याप्यवृत्तीति । विषयिधर्मिभिन्ने चायं नियमोऽन्यथेश्वरज्ञानमादाय व्यभिचारात् । न चेति । यद्यपि षड्रसत्वव्यवहाराच्चित्ररसो न सिद्धति तथापि तादृशव्यवहारस्य परम्परासम्बन्धेनोपपत्यर्थमवयवानां षड्रसत्वे चित्ररूपवञ्चित्ररसोऽव्यवयविनि स्यादिति भावः । अत्र त्विति। न च स्पार्शन प्रत्यक्षानुरोधेन चित्रस्पर्शापत्तिरिष्टत्वात् । न च रसवती हरीतकीतिप्रतीत्या चित्ररसस्यापि सिद्धिः । मधुरा हरीतकीतिप्रतीतिवद्र सप्रतीते [१] र्गुणविरोधबाधकेन परम्परासम्बन्धालम्बनत्वादिति भावः । प्रभाकरोपाध्यायास्तु हरीतकी चित्ररस्यै (सै?) वेत्याहु: । ननु जलसाहित्येन पाकात्कारणगुणादेव वा तदुत्पादेन पूर्वोक्त [२]-


  1. ० बटुक्तप्रतीतेर्गु ।
  2. मूलाक्त्तेनियमदि ।