पृष्ठम्:न्यायलीलावती.djvu/२१४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४३
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


पृथिवीरसस्या कारण गुणपूर्वकस्य पाकजत्वनियमात् । न च हरीतकीमाधुर्यस्य प्रकर्ष एवाम्भसा व्यज्यते । तदीयकषायादिरसानां जलानभिव्यङ्गयत्वदर्शनात् । ततो घृतस्य कुङ्कुमगन्धा- भिव्यञ्जकतावदस्यापि जलमाधुर्यव्य अकत्वम् । यदि वा शर-

न्यायलीलावतीकण्ठाभरणम्

पार्थिवरसोत पादकत्वादित्यर्थः । तदीपकषायादीति । यद्यपि नानारससमवायो न हरीतक्यां व्याप्यवृत्तिताविरोधात् विजातीयैरनारम्भाच्च । पटप्रत्यक्षतान्यथाऽनुपपत्त्या तच्चित्ररूपाभ्युपगमः, चित्ररसानभ्युमगमे च नानिष्टम् । न च पार्थिवविशेषगुणस्य सर्व्व पृथिवीसाधारण्यनियमभङ्गापत्तिरिष्टत्वात् । न चैवमिच्छाद्यपि पार्थिवे शरीरे स्यात्तत्र बाधकान्तरसत्त्वात् । षड्रसा हरीतकी तु (ति?) व्यवहारस्तु तद्रसकार्थ्यकारितया । द्रव्यान्तरेण जलमाधुर्य्यानभिव्यक्तौ नियतशक्तिमत्वं दृष्टान्तेनोपपादयति-तत इति । अस्यापीति । कषायद्रव्यस्यापीत्यर्थः । स्वाभाविकस्थितये माधुर्थ्यानुभवं स्वाभाविकमाह - यदि वेति । तिक्त्तादिरसवत् मधुरतावैलक्षण्यानुभवोऽपीति

न्यायलीलावतीप्रकाशः

भावः । हरीतकीरसश्च पाकज इत्यत्रापसिद्धान्तः । परमाणुरसस्यैव पाकजत्वात् कारणगुणप्रक्रमेण तु तदुत्पन्नाववयवानां नानारसत्वाहुणविरोधेन तदनारम्भादवयवी नीरस एवेत्युक्तम् । अतस्तत्र जलेन न मधुररसारम्भः, तथा च तदवयवगता विजातीयरसा युगपत्प्रतीयेरन्नित्युक्त्तभित्यभिप्रेत्याह - पृथिवीति । न च हरीतकीति । हरीतकीशब्दस्तदवयवपरः । एतच्च सर्वेषां रसानां जलव्यङ्गयत्वेऽपि जलविशेषमभिप्रेत्योक्तम् । तथा चेतररसदृष्टान्तेन मधुररसस्य जलानभिव्यङ्गत्वमनुमेयमिति भावः । 'अस्यापि कषायद्रव्यस्यापीत्यर्थः । शरदीति । ननु रसान्तराप्रतीतिमात्रं तत्र, न तु माधुर्यानुभवः ।

न्यायलीलावतीप्रकाशविवृतिः

नियमविरोध इत्यत आह - हरीतकीरस इति । 'जलव्यङ्ग्यत्वेऽपि रसनेन्द्रियलक्षणजलव्यङ्कयत्वेऽपि । 'जलविशेषं' योग्यं जलम् । यद्यपीदं सिद्धान्तफक्किकोपरि वक्तुमुचितं तथापि न चेत्यनेन सिद्धान्त पर्य