पृष्ठम्:न्यायलीलावती.djvu/२१५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४४
न्यायलीलावती


दि विमलजलदव्यूहानिरर्गल विगलदमलजलभारधारासारसञ्चारिनभस्तलनिहितविमलभाजनसम्भृतमपगत विविधोपाधिव्याधिसम्भेदम मृतद्रवओप्रीतममानन्दजनकमम्भोऽनुभूयते । किं वा जलरसस्य मधुरता [१] वैलक्षण्यं किमनुभूयमानजातिविरहः, उत शर्करादिमाधुर्यवैजात्यम्, अथ तेनैकजातीयताविरहः, उत मधुरशब्दावाच्यत्वम् [वा] । नाद्यः । अनुभवबाधितत्वात् । नेतरः । अविवादात् । न तृतीयः । उत्कटसादृश्याद्यननुभवेऽपि मधुरता-

न्यायलीलावतीकण्ठाभरणम्

यत् परोक्तं तत्राह किं वेति । जलीयरसे या जातिरनुभूयते तद्विरहो वा शर्करादिमाधुर्य्यभिन्नजातीयत्वं वा शर्करादिरसवृत्तिजातिशून्यत्वं वेति विकल्पत्रयार्थः । अनुभवेति । न हि या जातिर्यत्रानुभूयते तद्विरह एव तत्रेत्यर्थः । अविवादादिति । जलमाधुर्य्यस्य मयाऽपि विलक्षणत्वोपगमादित्यर्थः । उत्कटेति । वैलक्षण्येऽपि मधुरत्वसामान्यस्य तत्रोपगमादित्यर्थः । अवान्तरसामान्येऽपि महासामान्याभा-

न्यायलीलावतीप्रकाशः

न चर्नारसे सौहित्या [२]र्थिनस्तत्र प्रवृत्त्यनुपपत्तिः, अन्तः शैत्यार्थेनापि तदुपपत्तेः, नीरसपवनभक्षणेऽपि सर्पाणां प्रवृत्तेश्च । न च मनुष्याणां नीरसभक्षणेऽप्रवृत्तिरिति व्याप्तिरिति वाच्यम् तावता रसमात्रसिद्धावपि मधुररसासिद्धेः । तस्मात्पूर्वोकमानावष्टम्भेनेदमुक्कं नियामकाभावादिति दूषयति - किं वेति । अनुभूयमानेति । जलरस एव या जातिरनुभूयते तद्विरह इत्यर्थः । 'एकजातीयता' गुणत्वव्या-

न्यायलीलावतीप्रकाशविवृतिः

'न्तप्रतीकधारणमेवेत्यदोषः । तस्मादिति । इदमभ्युगमवादेन । वस्तुतो रसान्तरस्य सर्वप्राणिसाधारणस्य स्पृहाविषयत्वाभावे सर्वप्राणिसा-


  1. मधुरभावव० ।
  2. सौद्धित्यं तर्पणं तृप्तिरित्यमरः ।