पृष्ठम्:न्यायलीलावती.djvu/२१६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४५
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


मात्रस्यान्नादिसाधारण्यस्यानुभवात् । अन्यथा मेरुसर्षपयोरपि सत्ताविलयापत्तेः । न तुरीयः । व्यवहारबाधितत्वात् । न च पृथिव्यां [१] मधुरता आप्या शुष्यत्सु शर्करादिषु माधुर्यापकर्षस्यानुपलम्भात् । शुष्यति पुनर्द्रव्ये [२] स्नेहापकर्षात् । नाप्युष्णः स्पर्शः । औपाधिकत्वात् । मेद स्विस्वेदार्पकतेजसीव रूपानवभासे-


न्यायलीलावतीकण्ठाभरणम्

वे विपक्षदण्डमाह - अन्यथेति । व्यवहारेति | मधुरं जलमिति व्यवहारस्य साव्वैलौकिकत्वादिति भावः । पृथिवीमाधुर्य्यस्याप्यत्वं परापादितं दूषयति — न चेति । उपाध्यपपमे औपाधिकस्यापगमनियमात् प्रकृते तु वैपरीत्यमित्याह -- शुप्यस्विति । घृतादौ स्वाभाविकस्नेहे बाघकमाह - शुष्यतीति । उष्णोदके स्वाभाविक मौष्ण्यं परापादितं दूषयति-- नापीति । औपाधिकत्वादिनि । तेजःसन्निकर्षोपा धिकत्वादित्यर्थः । तर्हि ते-

न्यायलीलावतीप्रकाशः

व्यव्याव्यजात्या । अन्यथेति । अवान्तरजात्यनुभवव्याप्तो न परजात्यनुभव इत्यर्थः । पृथिव्या अपि मधुरताया आव्यत्वापत्तेरित्युक्तं दूषयति - न च पृथिव्या इति । औपाधिकस्योपाध्यपकर्षेऽपकर्षोपलम्भ- नियमादित्यर्थः । प्रत्युत शुष्यंस्कशेरुणि जलापगमे माधुर्योत्कर्षोपलम्भादिति भावः । स्नेहप्रतिवन्दीं दूषयति-शुष्यतीति । यथा यथा घृतादौ शोषस्तथा तथा स्नेहापकर्षोपलम्भादौपाधिकस्तत्र स्नेह इत्यर्थः । औपाधिकत्वादिति । उपाध्यन्वयानुविधानस्य अनन्यथासिद्धत्वादिति भावः । श्रीखण्डक्षोदेन घर्षकजलस्यैव प्रकृष्टं शैत्यमभि व्यज्यते । यद्वा श्रीखण्डान्तर्वर्त्तिजलस्यैव घर्षणाद्वहिर्भूत शैत्यातिशय उपलभ्यते, अघृष्टश्रीखण्डस्पर्शविजातीयस्पर्शानुभवात् । पवनादे.

न्यायलीलावतीप्रकाशविवृतिः

धारणप्रवृत्त्यैव मधुररसत्व [३] मिति द्रष्टव्यम् । प्रकृष्टं शैत्यमिति । शीतत्वावान्तरजातिविशिष्टं शैत्यमित्यर्थः । प्रतीतजलस्पर्शे प्रकर्षकल्पने मानाभाव इत्यरुचेराह -- यद्वेति जलसंयोगस्यैवेत्यादि प्रागुक्तं दूषयति - पवनदेरिति । ननु तेज संयोगादेव तदुत्पत्तिरस्त्वित्यंत


  1. पृथिव्या म० ।
  2. ति द्रव्ये पुनः स्ने० ।
  3. मधुररमवत्त्वमि० ।