पृष्ठम्:न्यायलीलावती.djvu/२१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४६
न्यायलीलावती


ऽपि स्पर्शप्रतीतेरविरोधात् । आप्यद्रवत्वस्यापाकजत्व [१] व्याप्त त्वात् । ( न च ) कनकद्रवत्वव नैमित्तिकत्वं, न च घृतद्रवत्वप्रतिवन्दी ग्रह: [२] । तस्याप्यत्वे पाकापेक्षाविरोधात्। तैले चाप्यभाग-


न्यायलीलावती कण्ठाभरणम्

जोरूपमप्यनुभूयेतेति यत्तु परेणोक्तं तत्राह- मेदस्वीति । 'मेदस्विनः' स्थूलास्तेषां प्रस्वेद उष्मणा भवति । स चोद्भूतस्पर्शोऽनुभूतरूपस्तथैव जलस्थं तेज इत्यर्थः । आप्यद्रवत्वस्य स्वाभाविकत्वादाह --आप्येति । अपाकजत्वनियम।दिति । अनग्निसंयोगजत्वनियमादित्यर्थः । घृतेऽपि द्रवत्वमाप्यं स्यादिति परापादिते दोषमाह - न चेति । 'पाकापेक्षा' तेजः- संयोगापेक्षा । तर्हि तैलेऽपि नाप्यं द्रवत्वमन्यथा तद्द्रवत्वं दहनप्रतिकूलं स्यादिति परोक्तं दूषयति – तैले चेति । स्नेहप्रकर्षाधीनं तैल

न्यायलीलावतीप्रकाशः

र्द्रव्यान्तरशैत्याभिव्यञ्जकत्वदर्शनात् । द्रव्यान्तरास्पृथिवीशैत्योत्पादस्य क्वाप्यदर्शनादिति भावः । रूपाध्यक्षताव्याप्यत्वात् स्पर्शाध्यक्षताया इत्यत्र व्यभिचारमाह - मेदस्वीति । करकादवभावादिति दूषयति - आप्यद्रवत्वस्येति । तेजःसम्बन्धेनापां द्रवत्वादर्शनात् प्रत्युत तन्नाशो पलम्भात्तदपाकजमित्यर्थः । न च हिमपिण्डस्याग्निसंयोगेन विलयनादत्र बाघः । अपाकजत्वेऽपि निमित्तान्तरादुत्पत्तिः कथं निराकरणीयेति वाच्यम्, नैमित्तिकद्रवत्वस्य तेजःसंयोगजन्यत्वनियमात् । यज्जातीयं चाग्निसंयोगजन्यद्रवत्वाश्रयस्तजातीयं तदभावे पिण्डीभूतमुपलभ्यते यथा घृतादीति व्याप्तेश्च जलजातीये चातथात्वात् । करकायां च शीतस्पर्शवत्वेन जलत्वानुमानम् । न चासांसिद्धिकद्रवत्वेन प्रतिरोधः, तस्यासिद्धेः । अदृष्टविशेषात्तत्प्रतिबन्धे काठिन्योपलम्भादिति भावः । तस्येति । आप्यद्रवत्वस्य तेजः संयोगाजन्यत्वादित्युक्तमिति भावः । तत्राप्सम्बन्ध इति दूषयति-- तैले चेति । स्नेहप्रकर्षाभावस्तनोपाधिरिति भावः । तैलद्रवत्वस्य पा-

न्यायलीलावती प्रकाशविवृतिः

आह -यज्जातीयं चेति । हिमपिण्डे च स्वाभाविकमेव द्रवत्वं करका-


  1. अपाकजत्व नियमादिति कण्ठाभरणधृतः पाठः ।
  2. ०त्वप्रतिबन्धाग्रहः ।