पृष्ठम्:न्यायलीलावती.djvu/२१८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४७
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


स्य स्नेहप्रकर्षवत्तेन दहनानुकूलत्वात् । आप्यमेव द्रवत्वं घृतद्रवत्वस्य पाकजत्वेन पार्थिवत्वात् । एवं च स्नेहोऽपामेव । घृत स्नेह: पार्थिव: भौमानलेन्धनत्वादिति चेन्न, प्रकर्षविशेषादेव


न्यायलीलावतीकण्ठाभरणम्

जलभागस्य दहनानुकूलत्वमित्यर्थः । तर्हि घृतद्रवत्वमव्याप्यं स्यात् दहनानुकूलता च तैलवत् स्नेहप्रकर्षाधीना स्यादित्यत आह - घृतद्रवत्वस्येति । भौमानलेन्धनत्वादिति । वायुभिन्नत्वे सति भौमानलोपचयहे-

न्यायलीलावतीप्रकाशः

र्थिवत्वे बाधकमाह - घृतेति । तैलद्रवत्वस्य पार्थिवत्वे घृतद्वत्वषत् पाकजत्वापत्तिरित्यर्थः । एवं चेति । [ एवं च ] घृतद्रवत्वस्य पाकजत्वादाव्यद्भवत्वस्य चातथात्वान्न द्रवत्वप्रतिवन्दिरिति घृतस्नेहोऽपामेवेति सिद्धे स्नेहस्तल्लक्षणं सिद्धमित्यर्थः । भौमेति । ननु चेन्धनत्वं न निमित्तत्वं वायुनाऽनैकान्तात् । न चानलदाह्यत्वेन तद्विशेष्यम् । दाहो हि रूपपरावृत्तिर्वा भस्मीभावो वा उभयस्यापि स्नेहावृत्तित्वेनापक्ष धर्म्मत्वम् । अत एव च नानलनाशहेतुनाशप्रतियोगित्वे सत्यनल हेतुत्वमिन्धनत्वम्, अनलावयवे गतत्वात् । न च हेतुत्वं निमित्तत्वमभिप्रेतम्, अनलस्येन्वननाशनाश्यत्वे मानाभावात् । इन्धननाशानन्तरं झनलान्तरं नोत्पद्यते पूर्वानलस्त्ववयव क्रियाविभागन्यायेन नश्यति । तस्माद्घृतस्नेहाश्रयो न जलं दहनानुकूलत्वात् काष्ठवदित्यभिप्रायकोऽयं ग्रन्थः । अत्र स्नेहानाधारत्वमुपाधिः। घृतस्नेहाश्रयो यदि जलं स्यात् भौमानलेन्धनं न स्यादित्यत्र च स्नेहप्रकर्षविशेषाभाव उपाधिरित्याह- - प्रकर्षेति । जलत्वमपि भेदकं जलशब्दसङ्केत-

न्यायलीलावतीप्रकाशविवृतिः

दिवदिति भावः । समवायित्वमवयवित्वं चासिद्धमेवेति सिद्धवदाहनिमित्तत्वमिति । अत एवेति । अपक्षधर्मत्वादेवेत्यर्थः । वक्ष्यमाणयुक्त्याऽनलस्येन्धननाशानाश्यत्वादित्यर्थः । व्यभिचारोऽपीत्याह -- अनलावयव इति । व्यभिचारोद्धारेऽपि अपक्षधर्मत्वं तदवस्थ मेवेत्याह--अनलस्येति । वस्तुतो घृतस्येन्धनत्वं न तदीयस्नेहस्येति स्वरूपासिद्धिरिति भावः । दहनेति । भौमदहनेत्यर्थः । तेन न दिव्यानलानुकूलजले व्यभि.