पृष्ठम्:न्यायलीलावती.djvu/२१९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४८
न्यायलीलावती


स्नेहस्य दहनानुकूलतोपपत्तेः । (इति) जलम् |


न्यायलीलावतीकण्ठाभरणम्

तुत्वादित्यर्थः । तदुपचयहेतुत्वं च तदुत्कर्षापकर्षप्रयोजकोत्कर्षांपकर्षवत्त्वम् । अन्यथा इन्धनत्वं यदि निमित्तत्वं तदा वायावतिव्याप्तिः । अनलदाह्यत्वे सतीति विशेषणे दाहस्य स्नेहावृत्तित्वाइपक्षधर्म्मत्वम् । न हि रूपपरावृत्तिर्वा भस्मीभावो वा स्ने सम्भ वति । अनलनाशहेतुनाशप्रतियोगित्वेन विशेषणे स्वरूपासिद्धिः । न हि स्नेहनाशादनलो नश्यति, अपि त्ववयवनाशात्तत्संयोगनाशाद्वा । अनलावयव व्यभिचारश्चेत्यादिदोषः स्यात् ।

न्यायलीलावतीप्रकाशः

ग्रहो न व्यक्तिमात्रे न वा व्यक्तिविशेष इत्यनुगतधर्मस्य बाधकाभावाज्जातित्वात् | अनित्यस्नेहत्वस्य कार्यतावच्छेदकत्वेनोक्तगत्या तत्सिद्धेर्वेति भावः ।

न्यायलीलावतीप्रकाशविवृतिः

चारः । तथाप्यनुकूलत्वे [१] तदन्यत्वेनापि हेतुविशेषणम् | अनित्येति । न च परमाणुसाधारणं जलत्वं तथापि न सिद्धामेति वाच्यम्, तस्यापि स्वरूपयोग्यत्वात् । समानाधिकरणस्नेहस्य [२] च प्रतिबन्धकतथा फलाभावः, नित्यस्येत्यादिव्याप्तिस्तु नाभ्युपेयत एवेति | मिश्रास्तु । अतिप्रसङ्गो ज्ञातः प्रतिबन्धक इति पूर्व परमाणुवृत्तित्वाज्ञानादुक्ककारणतावच्छेदकतया जलत्वसिद्धौ स्वोपादेयद्यणुकवृत्तिद्रव्यत्व साक्षाव्घाप्यजातित्वेन परमाणुवृत्तित्वानुमानेऽतिप्रसङ्गज्ञानं नावच्छेदकत्वकल्पनां बाधते उपजीविरोधादपि तु अनित्यत्वमवच्छेदके विशेषणं कल्प्यते पूर्वात्यागनोपजीव्यविरोधाभावादितिवदन्ति । वयं तु जललमवायिका रणता व व्छेदक तथैव जलत्वसिद्धिः अन्त्यावयवी च जलस्य नास्त्येव । न च तथा संति जलीयशरीरेऽन्त्यावयवित्वगर्भशरीरलक्षणाव्याप्तिः । तत्रान्त्यावयविपदस्य करादिवारकस्य फलानुपहितमात्रपरत्वादिति ब्रूमः ।


  1. तस्याप्यनु ।.
  2. ० स्नेहस्य तदप्रति ।