पृष्ठम्:न्यायलीलावती.djvu/२२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४९
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


 शुक्लमेव भास्वरं च रूपं तेजस इत्यसङ्गतम् । अग्नेररुणादिरूपोपलब्धेः कनकरूपस्य चाभास्वरत्वात् । संयोगिपार्थिवाभिभूतत्वेन [१] तत्राभास्वरत्वमिति चेन्न, पार्थिवरूपस्य तेजोरूपानभिभावकत्वात् । अन्यथा घटादावपि तथाभावप्रसङ्गेन रूपप्रत्यक्षत्वविरोधात् [२] । अनुद्भूतं तदिति चेन्न, अग्रहणप्रसङ्गात् ।


न्यायलीलावतीकण्ठाभरणम्

 शुक्लमिति । भास्वरमिति जलव्यावृत्तये । भास्वरत्वं च रूपप्रकाशकत्वव्यङ्गया रूपगता जातिः | अव्याप्तिमाह - कनकेति । न हि तद्रूपेण पररूपं व्यज्यत इत्यर्थः । गुरुत्वासमानाधिकरणरूपवत्वं कनकोष्माद्यव्यापकं औष्ण्य समानाधिकरणरूपवत्वं चन्द्रचामकिराद्यव्यापकमिति भावः । प्रथाभावेति । घटादिरूपस्यापि तेजोरूपाभिभावकत्वे तेजोभिन्नस्य रूपं क्कापि न गृह्यतेत्यर्थः । अनुभूतं तदिति । कनकरूपमित्यर्थः । अग्रहणेति । कनकरूपस्थेति शेषः । उद्भुत रूपस्पर्शयो-

न्यायलीलावतीप्रकाशः

 शुक्लभेष रूपं जलस्यापीत्यत उक्तं भास्वरं चेति । भास्वरत्वं च जातिविशेषो रूपान्तरप्रकाशकत्वव्यङ्गयः । अभास्वरत्वादिति । व्यञ्जकाभावेन भास्वरत्वानुपलम्भादित्यर्थः । अत एव न गुरुत्वासहचररूपं तल्लक्षणं कनकोष्मादावभावादिति भावः । अन्यथेति । घटादिरूपेणालोकरूपाभिभवा दुद्भूतानभिभूतरूपसहकारितेजोविरहात्सर्वरूपाप्र-

न्यायलीलावती प्रकाशविवृतिः

 भात्वरत्वं चेति । शुक्लृपदं चैवं स्वरूपकथनपरम् | चामीकरादावनुपलम्भ [३] हेतुकवै प्रत्यनिराकरणायेति ध्येयम् । 'व्यञ्जकाभावेन' रूपान्तरप्रकाशकत्वाभावेन । 'अत एव' अव्यापकत्वादेव | तदेवाह -- कनकेति । कनके विशेषणाभावादुष्मणि विशेष्यामावाच्च विशि ष्टाभाव इत्यर्थः । अनुद्भूतं च रूपं नास्तीत्यभिमानः । स्पर्शाप्रत्य क्षताया अनुकत्वात्तन्त्रिबन्धनदूषणापादनमयुक्त मित्याशङ्कायां व्याप्तिबलेनैव स्पर्शाप्रत्यक्षतासिद्धिरिति कस्यचिन्मतं निराकृत्यानुभूत-


  1. पार्थिवरूपामि० ।
  2. ०न रूपाप्रन्यनापत्ते ।
  3. ०दाबुपल० ।