पृष्ठम्:न्यायलीलावती.djvu/२२१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५०
न्यायलीलावती


रूपं न गृह्यत इति [१] चेन्न, रूपस्पर्शयोस्तैजसयोश्चाग्रहे कनकद्रव्यस्याप्रत्यक्षतापत्तेः । अभास्वरमिति [२] चेत्, सिद्धमीहितम् [३] | नाप्युष्ण एव स्पर्श: । पद्मरागादितेजसामनुष्णाशीतत्वात् । पार्थिवौपाधिकी सा ( स्पर्श ) प्रतीतिरिति चेन्न, रूपानवभासे तदनवभासात् । अन्यथा वायौ [४] स्पर्शविलयात् । औष्ण्यमेवैतदनुद्भूतमिति चेत्, [५] अनुष्णाशीत-


न्यायलीलावतीकण्ठाभरणम्

र्द्वयोरपि द्रव्यप्रत्यक्षताप्रयोजकत्वमभ्युपेत्याह-रूपस्पर्शयोरिति अन्यथानुपपत्या सिद्धान्तिनोऽभ्युपगममाशङ्कते- अभास्वरमिति । कनकरूपमिति शेषः । अपर आह --सिद्धमिति । कनके लक्षणमव्यापकं कनकेऽतैजसत्वं वा सिद्धमिति भावः । तेजोलक्षणान्तरं दूषयति --नापीति । रूपानवभास इति । पार्थिवोद्भूतस्पर्शस्य उद्भूत रूपसामानाधिकरण्यनियमादित्यर्थः । अन्यथेति । अयं चेत्यनियमः । तदा वायुरप्यनुदूभूतस्पर्शा पृथिवी स्यादित्यर्थः । औष्ण्यमेतदिति । पद्मरागादितेजसि यः स्पर्शोऽनुभूयते इति शेषः । अनुभवश्चेन्न प्रमाणं तदा पृथिवीस्पर्शो-

न्यायलीलावतीप्रकाशः

त्यक्षापत्तिरित्यर्थः । रूपस्पर्शयोरिति । यस्य तेजसो रूपमप्रत्यक्षं तस्य स्पर्शोऽध्यप्रत्यक्ष इत्यस्य ग्रीष्मोष्मणि व्यभिचारेऽपि सुवर्णोष्णस्पर्शस्यानुद्भवेनाप्रत्यक्षत्वे रूपस्याप्यग्रहे सुवर्णे प्रत्यक्षमेव न स्यात् । द्रव्यग्राहक चक्षुस्त्वग्भ्यां रूपस्पर्शयोग्यतायामेव द्रव्यग्रहादित्यर्थः । रूपानवभास इति । यस्य पार्थिवस्य रूपमप्रत्यक्षं तस्य स्पर्शोप्यप्रत्यक्ष इत्यर्थः । अन्यथेति । सोऽपि स्पर्शोऽनुद्भूतरूपपृथिव्याः स्यादित्यर्थः ।

न्यायलीलावती प्रकाशविवृतिः

त्वेनैव तदप्रत्यक्षत्वमुपपाद्य मूलयोजनामाह-- - -यस्य तेजस इति । यस्य पार्थिवस्येति । तथा च मणिव्यवहिततत्प्रभायां लौहित्यानवभासे


  1. त एवेति चेत्र ।
  2. स्वरं तदिति ।
  3. मिद्धं नः समीहितम् ।
  4. वायुपर्श० ।
  5. ति चेत्र ।