पृष्ठम्:न्यायलीलावती.djvu/२२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५१
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


( मात्र ) विलयात् । मैवम् । अग्नेररुणादिरूपप्रती तेरौपाधिकत्वात् । कनकरूपं च पार्थिवरूपाभिभूतमेव हीनत्वात् । तेजोंश-


न्यायलीलावतीकण्ठाभरणम्

ऽप्युष्ण एवानुभूतः स्यादित्याह-अनुष्णाशीतेति । अग्नेरिति । तेजस्त्वं शुक्लेतररूपवदवृत्ति गन्धासमानाधिकरणजातित्वात् जलत्ववदित्यत्र तात्पर्थ्यात् । अन्यथाऽङ्गारादिनोंपा घिर्त्वालायामव्यवश्यानुभवात् दिग्दाहादौ चोपाधेरनुपलम्भादिदोषापत्तिः । कनकंऽव्यार्प्ति निरस्यति-- कम केति । तेजोरूपस्य पार्थिवरूपाभिभाव्यत्वे रूपमात्रानुपलब्धिः

न्यायलीलावतीप्रकाशः

अनुष्णेति । अनुभूतोष्णशीतस्पर्शाभ्यामेव तथा प्रतीत्युपपत्तेरित्यर्थः । अग्नेरिति । ननूपाधिर्लोहिताङ्गारादिर्वाच्यः, तदहेऽपि दीर्घज्वालायां लौहित्यग्रहात्तन्नौपाधिकं दिग्दाहादौ चोपाधेरसम्भवः । मैवम् । तेजस्त्वं शुक्लेतररूपवदवृत्ति अपाकजरूपवत्परमाणुवृत्ति [ द्रव्यस्वव्याप्य ] जातित्वाज्जलत्ववदित्यत्र तात्पयार्त् । भास्वररूपस्य कनकाव्याप्तिं निरस्यति - कनकरूपमिति । यद्यप्यभिभृतरूपस्यापि वन्हेः स्वपरप्रकाशकत्वं दृष्टमिति कनकस्यापि तथात्वापत्तिः, तथाप्यभि-

न्यायलीलावतीप्रकाशविवृतिः

स्पर्शोपाधिकत्वमसम्भवीति भावः । अनुद्भूतोष्णेति । यद्यपि तयोरतीन्द्रियतया तदाश्रयाप्रत्यक्षतापत्त्या नैवमुपपत्तिस्तथापि तत्रापीष्टापत्त्या आपातत इदम् । अत एव सिद्धान्तेऽध्येतस्यापक्षेति भावः । अनुमानप्रामाण्यवलेनैवाग्निप्रेरणांद्रत पार्थिवभागस्योपाधित्वं कल्पनीयमित्यभिप्रेत्याह--तेजस्त्वमिति । आलोकादिकमादाय सिद्धसाधनमित्यभावद्वयगर्भता । पृथिवीत्वे व्यभिचार इति रूपवदित्यन्तम् । घटस्यैव वन्मते अपाकजरूपवत्वात् स एव व्यभिचार इति परमाणुपदम् । परमाणुत्वे व्यभिचार इति जातिपदम् । द्रव्यत्वच्याप्यपदमपि पूरणीयमन्यथा सत्तादौ व्यभिचारात् । क्वचिन्तु पाठ एव तथा । वस्तुतोऽवृत्तीत्यत्र नञ्ञ्जयेन पाकजरूपवदवृत्ति परमाणुवृत्तिजातित्वादिति हेतुः । जातिपदं चैवं जलपरमाणुपीत घटान्यतरत्वे व्यभिचारवारणायेति भावः । अभिभूतरूपस्यापीति । दीपादौ सर्वत्र पृथ्वीरूपाभि-