पृष्ठम्:न्यायलीलावती.djvu/२२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५२
न्यायलीलावती


न्यायलीलावतीकण्ठाभरणम्

स्यादिनि यदुक्तं तत्राह- -तेजोंऽश इति । कार्य्यलक्षणेन कनकलक्षणं तेजोनि मिति तद्रूरूपं पार्थिवरूपाभिभाव्यमिति कल्पनीयमित्यर्थः । ननु वन्हिरूपमप्यभिभूतमेव । तथा च तदपि न प्रकाशकं स्यादिति चेन्न वह्नौ शुक्लत्वमात्राभिभवेऽपि रूपस्यानभिभवात् । कनके तु रूपस्यैवाभिभूतत्वात् । नं चान्धकारे सुवर्णरूपोपलम्भापत्तिः बलवत्सजातीयसम्बन्धस्याभिभवत्वात् । उपष्टम्भकद्रव्य सम्भद महिम्ना तन्नोपलभ्यत इत्यन्ये । वह्निप्रभालक्षणं तेजोऽन्तरमेव वा प्रकाशकं कार्यवल । दुन्नेयम् । उष्प स्पर्शवत्त्वस्य तेजोलक्षणस्याव्याप्तिं परिहरति-

न्यायलीलावती प्रकाशः

भूतरूपवन्हिसम्बद्धानभिभूतरूपवहयादि मध्यादिव्यापिनी प्रभैवेतर 'रूपव्यञ्चिका । यद्वा वन्हौ रूपं नाभिभूयते किन्तु तन्निष्टशुक्लत्वम् । सु वर्णे तु रूपमेव तथति कार्यदर्शनात्कल्प्यते । न चैवमन्धकारेऽभि भावकपीत रूपा ग्रहेऽपि सुवर्णस्य भास्वररूषमुपलभ्येत बलवत्मजातीयग्रहणकृताग्रहणस्याभिभचत्वादिति वाच्यम्, बलवत्सजातीय सम्बस्यैवाभिभवत्वाल्लाघवात् । उपष्टम्भकद्रव्यसंयोग एव सुवर्णरूपप्रतिबन्धक इत्यन्ये । तथाप्यन्वकारे सुवर्णस्योपलम्भापत्तिरंभिभूत. रूपस्यापि तेजसो ग्रहणात् तेजास तेजोन्तरस्याप्रकाशकत्वात् । मैवम् । रूपे गृह्यमाण एव चक्षुषा द्रव्यग्रहणात् सुवर्णरूपमभिभवादेव नोपलभ्यते उपष्टम्भकरूपं चालोकाभावात् । अभिभाव्यताप्रयोजकमाह -तेजोंऽशेति । हीनत्वमवान्तरजातिभेदः । कार्यैकेति । अभिभव स्यानन्यथासिद्धत्वादित्यर्थः । उष्णस्पर्शस्य प्रभायामव्याप्तिं निर-

न्यायलीलावतीप्रकाशविवृतिः

'भूतरूपवत्वादिति भावः । ननु तेजोऽन्तरकल्पने गौरवं तद्रहापत्तिश्चेति अरुचेराह – यद्वेति । उपष्टम्भकेति । पूर्वं सजातीय सम्बन्धस्य प्रतिबन्धकत्वमुक्तमधुना तदाश्रयद्रव्यसंयोगस्योच्यत इति भेदः । सजातीयसम्ब न्धस्योल्कादिरूपग्रहप्रतिबन्धकत्वं क्लृप्तमिति तदेव कल्य्यत इत्यरु चेराह-- --अन्य इति । [अभिभूतरूपम्यापीति । इन्द्रनीलप्रभादेरित्यर्थः । ]सुवर्णरूपमिति ।. न वैधमन्धकारे वन्झपलम्भो न स्यात् तद्रूपस्याभिभूत