पृष्ठम्:न्यायलीलावती.djvu/२२४

एतत् पृष्ठम् परिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- -सविवृतिप्रकाशोद्भासिता १५३ हीनतायाः कार्यैकगम्यत्वात् । प्रभास्पर्शस्त्वतीन्द्रियोऽनुमानादुष्ण एव तेजस्त्वादवगम्यते । ननु सुवर्ण कथं तैजसम् । अत्यन्ताग्निसंयोगेनानुच्छिद्यमानद्रवत्वाधिकरणत्वादिति चेन्न, सन्दिग्धासिद्धत्वात् (१) किमिदमेव द्रवत्वाधिकरणं द्रवत्वाधारद्रव्यान्तरसंयुक्तं वेति । अनुभवसिद्धं द्रवत्वाधारत्वमिति चेत् ? (२) सिद्धं तदा पार्थित्वम् । पीतिमगुरुत्वाधिकरणत्वस्यापि तथात्वात् । तदौपा- न्यायलीलावतीकण्ठाभरणम् प्रभेति । प्रभा उष्णस्पर्शवती तेजस्त्वात् । तदनुपलम्भस्त्वनुद्भूतत्वादित्यर्थः। ननु तेर्जोशहीनत्वकल्पनं सुवर्णेऽव्यातिनिरासार्थं तदा स्याद्यदिसुवर्णे तैजसं भवेत्तदेव तु नास्तीत्याह – नन्विति । सुवर्णं तैजसमत्यन्तानलसंयोगेऽप्यनुच्छिद्यमानद्रवत्वाधिकरणत्वात् न यदेवं न तदेवं यथा घट इति व्यतिरेकिणं शङ्कते - अत्यन्तेति । अनित्यपदपूरणात् न जलपरमाणौ व्यभिचारः अपार्थिवत्वं वा साध्यम् । सन्दिग्घेति । तैजसत्वेनाभिमतस्य द्रवत्वाधारत्वं सन्दिग्धमित्यर्थः । एतदेवाह - किमिति । उप लभ्यमानं द्रवत्वं पीतिमगुरुत्वाश्रयं वा तेजसो वेति सन्देह इत्यर्थः । ननु सन्दिग्धासिद्धिस्तदा स्याद्यदि द्रवत्वाधारत्वस्य हेतोः सन्देहः स्यात् अनुभवबलात्तनिश्चितमेवेत्याह - अनुभवेति । अनुभवश्वेद्वलं तदा पीतिमसमानाधिकरणमेव द्रवत्वमनुभूयत इति पार्थिवत्वमेव तस्य व्यवस्थितमित्याह - सिद्धमिति । तदौपाधिक- न्यायलीलावतीप्रकाशः

स्थति - प्रभेति । तेजस्त्वात्तत्रोष्णस्पर्शानुमाने चान्द्रकर इवानुभूनत्वं कल्प्यत इत्यर्थः । अत्यन्तेति । पार्थिवंद्रवत्वस्याग्निसंयोगनाइयत्वादित्यर्थः । न च पीतिमगुरुत्वाश्रयस्य पक्षत्वे बाघोऽतिरिक्तपक्षत्वे चाश्रयासिद्धिः । उभयसिद्धप्रत्यक्षद्रवत्वाश्रयंस्य पक्षत्वात् । सन्दिग्धेति । तथाविधं द्रवत्वं त्वदुपगतोपष्टम्भकस्य सुवर्णस्य चेति सन्देहाद्धेतोः सन्दिग्धाश्रयत्वादित्यर्थः । अनुभवबलावलम्बने तु पीतिमगुरुत्वयोरपि तदीयत्वमिति कथं तैजसत्वमित्याह - पीतिमेति । तथात्वात् ( १ ) सन्दिग्धानैकान्तिकत्वात् । ( २ ) oति चैन्न ।