पृष्ठम्:न्यायलीलावती.djvu/२२५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५४
न्यायलीलावती


धिकत्वेन शङ्कितमिति चेत्, [१] तुल्यं द्रवत्वेऽपि । मैवम् ।

पीतिमा च गुरुत्वं च दाहे यत्र [२] च रक्तता ।
तस्य लोकप्रसिद्धस्य स्वर्णत्वं केन वार्यते ॥
अनुच्छिन्नद्रवत्वं तु वस्तु यत्त्विह भासते ।
सुवर्णव्यवहारोऽयं तत्र शास्त्रे [३] प्रवर्तते ॥


न्यायलीलावतीकण्ठाभरणम्

त्वेनेति । उपष्टम्भक पार्थिवौपाधिकं पीतत्वमित्यर्थः । तुल्यमिति । द्रवत्वमध्यनुभूयमानं तर्हि पार्थिवमेवेति स्वरूपासिद्धो हेतुरित्यर्थः । पीतिमा चेति । यत् पीतं गुरु रूपपरावृत्तिस्थानं तत् द्रव्यं पार्थिवमेव सुवर्णत्वेन व्यपदिश्यते तत्र च न द्रवत्वं पार्थिवत्वेऽस्य चाग्निसंयोगनाइयत्वदर्शनात् । अत एव लौकिकानां पलमितं सुवर्णमित्यादिव्यवहार इत्यर्थः ।

 ननु त्वया तैजसं किमभिधीपत इत्यत आह - अनुच्छिन्नेति । यन्मुषायां ध्मायमानं द्रवत्वाधिकरणमुपलभ्यते तत्र तेजारी शास्त्रकृतां सुवर्णव्यवहारः पार्थिवद्रवत्वस्यात्यन्ताग्निसंयोगोच्छेद्यत्वेन तद्वैधर्म्याद्विशिष्टं द्रवत्वाधिकरणं रूपवञ्च तेज एव भवितुमर्हति । पार्थिवस्तु भागो न तदा द्रवतामुपैति । काठिन्यानुपलम्भश्च मसीगुटकस्यैव जले क्षुण्णस्य, लोष्ट्रस्य वा जलविलीनस्य । किं च पार्थिवपीतभागस्य रूपान्तरपरावृत्तिप्रतिबन्धकं विजातीयद्रव्ये

न्यायलीलावती प्रकाशः

द्रवत्वसामानाधिकरण्येनानुभूयमानत्वादित्यर्थः । तुल्यमिति । औपाधिकत्वशङ्का तूभयत्र तुल्येत्यर्थः ।

 प्रथममेव सुवर्णस्य तैजसत्वे पीतिमाद्याश्रये कथं सुवर्णव्यवहार इति शङ्कां निरस्यति - पीतिमा चेति । पीतिमगुरुत्वाश्रये सुवर्णे पार्थिवत्वमेव अनुभवव्यपदेशयोरवारणादित्यर्थः । तर्हि शास्त्रे "अग्नेरपत्यं प्रथमं हिरण्य"मित्यादौ कुतस्तैजसत्वव्यवहारः पीतिमगुरुत्वाश्रयस्य तैजसत्वे बाधकादित्यत आह -अनुच्छिन्नेति । एतेन तैजसत्वसाधने हेतुरप्युक्तः । नन्वेवं लोकशा-


  1. ०ति चेन्न ।
  2. यस्य ।
  3. तन्त्रशास्त्रे ।