पृष्ठम्:न्यायलीलावती.djvu/२२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५६
न्यायलीलावती


 न चात्यन्तानलसंयोगेऽप्यनुच्छिद्यमानत्वाद्गुरुत्वमध्यभौमं स्यात् । अत्यन्ताग्निसंयोगेन नष्टगुरुत्वस्यैव पुनरुत्पत्त्याविरोधात् काठिन्यवत् । न च द्रवत्वमत्यन्तमुच्छिद्यते । अत्यन्ताग्निसंयोगे ऽपि प्रत्यक्षसिद्धत्वात् । गुरुत्वाश्रयस्य भौमत्वे दाहः स्यादिति चेन्न, दाहो यदि भस्मता तदा वज्रेण व्यभिचार: । रूपान्त-


न्यायलीलावतीकण्ठाभरणम्

लभ्येत च तत्सन्निकर्षे द्रव्यान्तरमिति भावः । यथा तेजसि पार्थि वद्रवत्ववैधर्म्यात् द्रवत्वं तथा गुरुत्वमपि तथा स्यादित्याशङ्कयाह – न चेति । यथाग्निसंयोगान्नष्टं काठिन्यं पुनरुत्पद्यते तथा गुरुत्वमपि अन्यदुत्पद्यत इत्यर्थः । ननु द्रवत्वस्यापि कथं न पुनरुत्पत्तिस्तथा च स्वरूपासिद्धो हेतुरित्याशङ्कयाह-- -न चेति । यथा ध्मायमानस्य द्रवत्वमुपलभ्यते न तथा गुरुत्वं येन तन्नाशो न कल्प्यते इत्यर्थः । ननु यदि गुरुत्वाश्रयः पार्थिवं तदाग्निसंयोगाइह्येत न च दह्यते तस्मान्न पार्थिवम् । तथा च गुरुत्वमपि तैजसमेवेत्याह- गुरुत्वाश्रयस्येति । एतत्तर्कमूलव्याप्तौ व्यभिचारमाह - दाह इति । ननु गुरुत्वाश्रय पार्थिवस्थ रूपपरावृत्तिश्चेद् भवत्येव तदा तदानीन्तनत-

न्यायलीलावती प्रकाशः

तैजसमित्यर्थः । यद्यपि भौममपि गुरुत्वं नाम्निसंयोगादुच्छिद्यते भस्मदशाया [१] मपि किञ्चिद्गुरुत्वानुभवात् तथाप्यभ्युपगमवादोऽयम्। सुवर्णद्रवत्वमपि काठिन्यवदेव नष्टं पुनरुत्पद्यत इति न विनाशकत्वकालेऽपि तस्याध्यक्षत्वादित्याह – न चेति । 'तदा' कनकद्रवत्वद-

न्यायलीलावतीप्रकाश विवृतिः

श्रयप्रतिबन्धकत्वाभिधानादित्यर्थः । गुरुरवस्था भौमत्वं क्वचिदिष्टमेवेत्यत आह - तैजसमिति । भस्मीभावदशायामिति । यद्यपि प्राचीनं गुरुत्वमत्यन्तं नष्टमेव अन्यथा स्वल्पगुरुत्वानुभवविरोधात् तथापि तदाश्रयनाशादेव नष्टं न त्वग्निसंयोगादन्यथा परमाणोरपि तदा गुरुत्वनाशे तदारब्धे भस्मनि तदनुभवविरोधादिति भाव: । अपा-


  1. भस्मीभावदशायामिति विवृतिधृत पाठः ।