पृष्ठम्:न्यायलीलावती.djvu/२२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५७
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


रापत्तिश्चेद्भवत्येव न प्रतीयते च तदा [ रूपं, ] तेजोरूपेणाभिभूतत्वात् । प्राकृतरूपापत्तिस्तु अग्निसंयोगनाशादौषधादासादितदाहस्येव देहस्य | [ इति ] तेजः ॥


न्यायलीलावतीकण्ठाभरणम्

द्रूपमुपलभ्येतेत्याह – प्रतीयत इति । तेजोरूपेणेति । अग्निरूपेणेत्यर्थः ।

 ननु पुनः प्रकृतरूपदर्शनात् मध्यावस्थायामपि तदेव रूपमासीदिति लक्ष्यते । तथा च कथं रूपपरावृत्तिलक्षणो दाह इत्यत आह --- प्राकृतेति । यथा चित्रकाद्यौषधदग्धशरीरभागे रूपान्तरापत्तावपि चिरेण प्रकृतरूपदर्शनं तथा प्रकृतेऽपीत्यर्थः । अत्र यद्यपि तैजस स्यापि द्रवत्वस्य तारतम्यदर्शनादाग्निसंयोगानुच्छेद्यत्वमसिद्धं पा-

न्यायलीलावतीप्रकाशः

शायाम् । 'तेजोरूपेण' अग्निरूपेणेत्यर्थः । तर्ह्यद्रवदशायां यादृशं रूपमासीत्तादृशं पुनः कथमुपलभ्यत इत्यत आह - प्राकृतेति । अत्रापत्तिशब्देन ज्ञानं विवक्षितं अग्निसंयोगाभावस्य रूपान्तराहेतुत्वात् अग्निसंयोगस्यैव तद्धेतुत्वात् । तथा च 'औषधात्' चित्रकादासादितदाहस्य देहस्य तन्नाशे यथा पश्चात्प्राकृतरूपं ज्ञायते तथाऽग्निसंयोगस्य प्राकृतरूपज्ञानप्रतिबन्धकस्य नाशात्प्राकृतं रूपं ज्ञायत इ त्यर्थः । औषधाभावादितिपाठे दाह प्रतिबन्धकौषधाभावादासादितदाहस्य देहस्येत्यर्थः ।

 अत्र वदन्ति । अत्यन्ताग्निसंयोगानुच्छेद्यं द्रवत्वमसिद्धं घृतादिवद् द्रवत्वतारतम्यदर्शनेन द्रवत्वोच्छेदात् उपष्टम्भकपार्थिवे व्यभिचारश्च । न हि तदा तदद्रवमेवास्ते । तैजसत्वसाधने परमाणुभिर्व्यभिचारोऽसाधारण्यं च । न चोदूभूततैजसत्वे साध्ये सपक्षाभावान्नासाधारण्यं अर्थान्तरत्वात् तैजसत्वमात्रे विप्रतिपत्तेः उपष्टम्भकभागे विरुद्धत्वाच्च द्रुतपार्थिवस्थाप्येवं साध्यत्वापत्तेः व्यति-

न्यायलीलावतीप्रकाशविवृतिः

र्थिवत्वसाधने च वक्ष्यमाणं दूषणमित्याशयेनाह—तैजसत्वसाधन इति । अनित्यत्वं यदि द्रवत्वविशेषणं तत्राह - असाधारण्यं चेति । विरुद्धत्वाञ्चेति । साध्यानवगतसहचारः साध्याभावसहचारी हेतुर्विरुद्ध इति लक्षणमभिप्रेत्येदमुक्तम् । द्रुतपार्थिवस्येति । उपष्ठम्भके सपक्षे वृत्त्याऽसाधा-