पृष्ठम्:न्यायलीलावती.djvu/२२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५८
न्यायलीलावती


न्यायलीलावतीकण्ठाभरणम्

र्थिवभागे व्यभिचारि च तदानीं तस्यापि द्रुतत्वात् । यदि च तैजसत्वं साध्यं तदा जलपरमाणौ व्यभिचारः, सपक्षाच्च प्रदीपादेर्व्यावृत्तावसाधारण्यम्, असाधारणनिवृत्तये द्रुततैजसं चेत् साध्यं तदाऽर्थान्तरम्, उपष्टम्भकभागे च विरुद्धम्, विशिष्टे साध्ये विशेषणभागस्य द्रवत्वस्योभयसिद्धत्वात् सिद्धसाधनं पक्षैकदेशे साध्या प्रसिद्धिरतः साध्यांशसिद्धेरपि दोषत्वात् साध्याप्रसिद्धिश्च

न्यायलीलावतीप्रकाशः

रेकव्याप्तेर विशेषात् अंशतः सिद्धसाधनाच्च द्रवत्वस्योभयसिद्धत्वात् अत्यन्तानुच्छेदकपदार्थयोरनिरुक्तेश्च साध्या प्रसिद्धिश्च । न च तेजो द्रवत्ववद् रूपवत्त्वादिति तत्प्रसिद्धिः । घटादौ व्यभिचारात प्रसिद्धतेज. पक्षत्वे बाधादन्यत्राप्रसिद्धेः। तेजस्त्वं द्रवत्वद्वृत्ति द्रव्यत्वसाक्षाव्घाप्य रूपववृत्तिजातित्वात् जलत्ववत् इत्यत्र च रसवद्वृत्तित्वमुपाधिः । न च रसवत्त्वं द्रवत्वसमानाधिकरणात्यन्ताभावप्रतियोगि

न्यायलीलावती प्रकाशविवृतिः

रण्यामावादिति भावः । अंशत इति । यद्यपि पक्षैकदेशे साध्य [ सि?] यांऽशतः सिद्धसाधनं न तु साध्यैकदेशसिद्धत्वेन तथापि प्रतीतांशसाधनेऽर्थान्तरमिति साध्यैकदेशसिद्ध्यापि तुल्यं दूषणमिति भावः । साध्येति। द्रुततैजसत्वस्य क्काप्यदर्शनादिति भावः । द्रव्यत्वेति । घटत्वादौ व्यभिचार इति व्याप्यान्तम् । आत्मत्वादौ व्यभिचार इति रूपवद्वृत्तीति । आत्मघटान्यतरत्वे व्यभिचार इति जातिपदम् । यद्यपि विरुद्धरसारब्धे निरुक्तोपाधेः साध्याव्यापकत्थं स्फुटं तथापि तदपि प्रमाणगम्यमेवेत्या शयेन द्रुतनीरसं [१] साधयतिरसवत्त्वमिति । द्रुतत्वे व्यभिचार इत्यद्भुतवृत्तीति विशेषणम् | द्रव्यत्वपदं रूपित्वपरम् । व्याप्यपदं न्यूनवृत्तिपरमतो न रूपित्वादौ व्यभिचारः । धर्मपदं चेतरनिरूपणाधीननिरूपणान्यपरमतो न द्रुतघटान्यतरत्वे न वा द्रुतघाविति समूहालम्बनविषयत्वे व्यभिचारः । ननु पक्षस्य समवायघटितत्वेनासिद्धिः समवायभिन्नत्वस्थापि प्रतियोगिदले विशेषणत्वात् ।


  1. द्रुतनीरसत्वं सा० ।