पृष्ठम्:न्यायलीलावती.djvu/२३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५९
ज्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


न्याय लीलावती कण्ठाभरणम्

द्रुततैजसत्वस्य काव्यप्रसिद्धेः । न च तेजस्त्वं द्रवस्ववत्ति रूपवद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातित्वात् जलत्ववदित्यनुमानात् द्रुततैजसत्वसिद्धिः, रसवत्वस्यात्रोपाधित्वात् । न चाटुतवृत्तिद्रव्यत्वसाक्षाद्याव्यधर्म्मत्वेन रसवत्वस्य द्रवत्वसमानाधिकरणात्यन्ताभावप्रति योगित्वं साध्यं तथा च द्रुततेजः सिद्धौ रसवत्वं साध्याव्यापकत्वा नोपाधिरिति वाच्यम्, अत्रापि तेजोमात्रावृत्तित्वस्योपाधित्वात् ।

न्यायलीलावतीप्रकाशः

अद्रुतवृत्तिद्रव्यत्वव्याप्यधर्मत्वात् घटत्ववदिति द्रुततेजः सिद्धौ साध्याव्यापकत्वं तेजोमात्रावृत्तित्वस्योपाधित्वात् । न च पक्षेतरत्वं प्रदीपत्वादेरपि व्यावर्त्यत्वात् । अत एवेदमपार्थिवं अत्यन्ताग्निसंयोगानुच्छिद्यमानद्रवत्वात् जलपरमाणुवदिति नानुमानं असिद्धेरुपटम्भकभागे व्यभिचाराच्च । द्रवत्वानुच्छेदकाग्निसंयोगवत्त्वं च घटादावनैकान्तिकम् | सुवर्णारम्भकाः परमाणवो न पार्थिवाः अत्यन्ताग्निसंयोगेऽपि भस्मानारम्भकत्वादित्यपि घटादौ व्यभिचारि । परमाणुत्वेन विशेषणे त्वसिद्धिः तैरपि कदाचिद्भस्म रम्भाभ्युपगमात् ।

न्यायलीलावती प्रकाशविवृतिः

 मिश्रास्तु धर्मपदं भावपरमतो नान्यतरत्वे व्यभिचारः । वृत्तिश्च विषयतातिरिक्ता विविक्षितेति न समूहालम्बनविषयत्वे व्यभिचार इति वदन्ति ।

 वस्तुतो रसत्वं द्रवत्वसमानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकं अद्रुतवृत्तिरूपव्याप्यमात्रवृत्तिजातित्वादित्यत्रोक्तानुमानतात्प र्यम् । यदि च विरुद्धरसारब्धे साध्याव्यापकत्व परिहाराय रसवद्वृत्तिजातिमत्त्वमुपाधिरित्युच्यते तदोक्तसाध्ये द्रवत्वाधिकरणे विरुद्धरसानारब्धत्वं विशेषणमतो नार्थान्तरमिति दिकू | द्रुततेज इति । तेजः पदं तु नीरसपरम् | उक्तानुमानेन तावत एव सिद्धेः प्रकृतोपयोगाच्च । अत एव वक्ष्यमाणोपाधेरपि न साध्याव्यापकत्वमित्यवधे. यम् । साध्याव्यापकत्वं तद्वृत्यसमानाधिकरणरसवत्वोपाघेरिति शेषः । तेजोमात्रेति । सत्तादौ साध्या व्यापकत्वनिरासाय मात्रपदम् । उपष्टम्भकभाग इत्युपलक्षणं क्वथ्यमानजलमध्यस्थघृतेऽपीति द्रष्टव्यम् । द्रवत्वेति । अत्र चनासिद्धिस्त दुच्छेद काग्निसंयोगसत्त्वेपि तदनु-