पृष्ठम्:न्यायलीलावती.djvu/२३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
ब्यायलीलावती


न्याय लीलावतीकण्ठाभरणम्

न च पूर्वहेतुना तैजसत्वं न साध्यं किन्त्वपार्थिवत्वं तथा च जन्यपरमाणुरन्वयदृष्टान्त इति वाच्यम्, उपष्टम्भकभागे व्यभिचारादसिद्धेश्च । न च सुवर्णारम्भकाः परमाणवो न पार्थिवा अत्यन्ताग्नि-

न्यायलीलावतीप्रकाशः

किञ्च सुवर्ण पार्थिव [१]अग्निसंयोगासमवायिकारणकद्रवत्वाधि- करणवृत्तिद्रव्यत्वव्याप्यजातिमत्त्वात् घृतवदिति प्रतिरोधोऽपि । न च तेजो नैमित्तिकद्रबत्व समानाधिकरणत्ते जस्तदितरावृत्तिजातिमत् शीतस्पर्शासहचररूपवत्वात् पृथिवीवदिति तेजसि नैमित्तिकद्रवत्वसिद्धिः, पृथिवीत्वस्योपाधित्वात् । न च पृथिवीत्वं नैमित्तिकद्रवत्व-

न्यायलीलावतीप्रकाशविवृतिः

च्छेदकस्याग्निसंयोगस्याविरोधादिति भावः | अग्निसंयोगेति । द्रवत्वं विनैव नष्टसुवर्णेऽसिद्धिवारणाय जातिगर्भता । आलोकादौ व्यभि चार इति द्रवत्वाधिकरणवृत्तीति । सत्तामादाय स एव व्यभिचार इति द्रव्यत्वव्याध्येति । व्याप्यत्वं च भेदगर्भम् । आलोकघृतान्यतरत्वमादाय| लोके व्यभिचार इति जातिपदम् । अत्र न तैजसमितिसाध्यस्य पार्थिवमित्यर्थः । तेन जले व्यभिचारवारकत्वेनाग्नीत्यादिपदसार्थकता | क्वचित्तु पाठ एव तथा । अग्निपदसंयोगासमवायिपदयोस्तु विकल्पेनान्वये हेतुद्वयं तावतैवादृष्टवदात्मसंयोगं निमित्तमादाय जले प्रसक्तस्य व्यभिचारस्य वारणादिति ध्येयम् । धर्मि पक्षतायां यो विकल्पः स वक्ष्यमाणसाध्येऽपीति आलोकादिपक्षतायामप्यक्षतेरित्यभिप्रेत्याह---- न च तेज इति । सत्तामादाय सिद्धसाधनमिति तदितरावृत्तित्वं विशेषणम् | दृष्टान्तसिद्ध्यर्थं तेजस इति । उभयावृत्तित्वं च पृथिवीत्वेऽपीत्यदोषः । न च जातिपदं व्यर्थ तस्य धर्ममात्रपरत्वादनुपादेयत्वाद्वेति मिश्राः ।

 अत्रेदं चिन्त्यम् । तथा सति घृतजलान्यतरत्वमादाय जलेऽपि साभ्यसत्त्वात्तत्र व्यभिचारवारणाय शीतेत्यादि विशेषणवैयर्थ्यमग्रे वाच्यम् | पृथित्वोपाधेश्व जले साध्याव्यापकत्वमिति । वयं तु अवृ त्तिपदं समवेतपरम् । तथाच घृततेजोऽन्यतरत्वमादाय सिद्धसाधन. वारणाय जातिपदं समवेतपरमुपादेयमिति ब्रूमः ।


  1. सुवर्ण न तैजसं पार्थिवं वेति क्वचित् पाठः । सुवर्णा न तैजसमित्यपि पाठः ।