पृष्ठम्:न्यायलीलावती.djvu/२३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६२
न्यायलीलावती


न्यायलीलावतीकण्ठाभरणम्

यतम्, घृतद्रवत्वे तु न तथा, तत्रात्यन्तनाशस्यैवोपलब्धेः । अत्र तु तारतम्य मात्रानुमेयो नाशः । एवं च द्रवत्वसामग्य समवहिताग्निसंयोगजन्यध्वंसप्रतियोग्यवृत्तिद्रवत्व (त्व?) व्याप्यजातिमद् द्रवत्वं घृतादिद्रवत्वविलक्षणं तैजसत्वे लिङ्गं पर्यवस्यति । तदापि क्वाचिर्त्की द्रवत्वसामग्रीमादाय स्वरूपासिद्धिशङ्कया समानाधिकरणपदमप्यत्र प्रक्षिपन्ति ।

 यद्वा पीतिमगुरुत्वाश्रयो द्रव्यं विजातीयरूपप्रतिबन्धकद्रव-

न्यायलीलावतीप्रकाशः

सुवर्णभिन्नतेजोभिनवृत्ति समस्ततेजोवृत्तित्वात् द्रव्यत्ववदित्यत्र तेजोभिन्नवृत्तित्वमुपाधिः ।  यत्तु पार्थिवं रूपमस्यन्ताग्निसंयोगादसति विरोध्यन्तरे परावर्त्तते सति तु नेति नियमः, दह्यमानेषु पटादिषु दर्शनेन जललम्बन्धाञ्च तेष्वेवादर्शनेन कार्यकारणभावव्यवस्थितेः । अतः पार्थिवपीतरूपपरावृत्तिप्रतिबन्धकं तेजः सुवर्णमित्युच्यते । तन्त्र, रूपापरावृत्तिर्नाविनाशः, असिद्धेः तादृशतेजःसंयोगेन पूर्वद्रव्यनाशे रूपनाशस्यावश्यकत्वात् । नापि सजातीयरूपानु-

न्यायलीलावतीप्रकाशविवृतिः

दिक् । सुवर्णभिन्नं यत् तेजस्तद्भिन्नवृत्तित्वं वा साध्यम् । इदं च सुवर्णवृत्तितया [१] वा । तत्रान्त्यस्य वाधात्प्रथममादाय पर्यवसानमित्यर्थः । यद्यपि सुवर्णवृत्तीत्येव सम्यक् तथापि तथा साध्ये द्रुतत्वाभावे निश्चितसाध्याभाववति हेतोः सन्देहेन सन्दिग्धानैकान्तिकमिति विशिष्टं साध्यम । तच्चाकाशादिवृत्तितयैव द्रुतत्वाभावेऽक्षतमिति वदन्ति । तञ्चिन्त्यम् । एवमपि सुवर्णभिन्न तेजस्त्वे व्यभिचार [एव] लन्देहात् । यदि चोक्तानैकान्तिकस्य पक्षताघटकसन्देहाघानतया [२] अताहशव्यभिचारज्ञानस्यैव दूषकतया न तस्य दूषणता तदा पूर्वोक्तव्यभिचारसन्देहोऽपि तथेति । तस्माद्यथोक्तविशेषणविशेष्यभावे न वैयर्थ्यमित्येव सम्यक् ।

 तेजोभिन्नति । अत्र द्रव्यपदमविवक्षितार्थमतो न रूपादौ साघ्याव्यापकता । यदि च साध्येऽपि द्रव्यपदं तदा यथाश्रुतमेव


  1. तेजोभित्रवृत्तितया वेत्यधिकं द्वितीयपुस्तके ।
  2. ०कसन्देहाभिमततया ।