पृष्ठम्:न्यायलीलावती.djvu/२३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६३
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


न्यायलीलावतीकण्ठाभरणम्

द्रव्यसंयुक्तमत्यन्ताग्निसंयोगेऽपि पूर्वरूपविजातीयरूपानाधारपार्थिवत्वात् क्वथ्यमानजलमध्यस्थपीतपटवत् । न चाप्रयोजकं पीतिमाश्रयो द्रव्यं यदि पूर्वरूपविजातीयरूपप्रतिबन्धकद्रवद्रव्यसंयुक्तं न स्यात् पूर्वरूपविजातीयरूपवत् स्यादित्यनुकूलतर्कस्य सत्त्वात् ।

न्यायलीलावतीप्रकाशः

वृत्तिः सन्तानाविच्छेदो वा, पार्थिवावरविनि व्यभिचारात् [१]। पृथिव्यामपि तयोर्बहुश उपलम्भात्, पृथिवी वैधर्म्यवत्तेजोवैधर्म्यस्याप्यप्रकाशकत्वादेर्भावात् [२] किञ्च [३]अपार्थिवत्वे साध्ये अग्निसंयोगाविनाश्यरूपाधिकरणत्वमनैकान्तिकमसिद्धं च [४] । अत्यन्ताग्निसंयोगनाश्यरूपाधिकरणवृत्तिपृथिवीत्वव्याप्यजातिशून्यत्वं च[५]पार्थिवपरमाणौ व्यभिचारि, तत्र पृथिवीत्वव्याप्यजात्यनङ्गीकारात्। अत्यन्ताग्निसंयोगजन्यरूपाघारावृत्तिजातिमत्त्वं चासिद्धम्, दाहेन रक्तसारतादर्शनात् । तादृशं रूपमभिभावकस्येत्यत्र मानाभावात् ।

न्यायलीलावतीप्रकाशविवृतिः

सम्यगिति ध्येयम् । व्यभिचारादिति । विरोधिद्रवद्रव्यसम्बन्धस्येति शेषः । तथा च यथा सत्यव्यग्निसंयोगे विरोधिद्रवद्रव्यसम्बन्धं विनापि घटादौ सजातीयरूपानुवृत्यादिस्तथा प्रकृतेऽपि स्यादित्यर्थः । नन्वनुच्छिद्यमानद्रवत्वेनैवापृथिवीत्वं साध्यं तथा सति प्रकाशकत्वाभावेनातेजस्त्वस्यापि सिद्ध्यापत्तेरित्याह- पृथिवीति । अनैकान्तिकमिति । अवयविनीति शेषः । यदि च पाकेनावयविन्यपि रूपपरावृत्तिरुपेयते तत्राह-असिद्धं चेति । दाहेन रक्तसारतादर्शनादिति भावः । अत्यन्तेति । सत्तादिकमादायासिद्धिरिति पृथिवीत्वव्याप्येति । विशिष्टाभावतया चाव्यर्थता । परस्य पृथिवीत्वव्याप्यजातिः सुवर्णत्वमेव पक्ष इति वृत्त्यन्तम् । सुवर्ण त्वनिसंयो


  1. नैयायिकनय इति शेषः ।
  2. महत्त्वोद्भूतरूपवत्त्वे सत्यप्रकाशकत्वं तेजोवैधर्म्यमिति भावः ।
  3. द्रवत्वविशेषेणेव रूपविशेषेणापि केषां चिदपार्थिवत्वं दूषयति--किञ्चेति । इति दीधितिः ।
  4. विनाइयत्वं विनाशोपधानं तद्योग्यता वा आधेऽनैकान्तिकता । आमाविनष्टे घढादौं । द्वितीयेऽसिद्धत्वं पाकेन रूपतारतम्यस्यानुभवसिद्धत्वात् । इति दीधितिः ।
  5. संयोगजन्यरूपाधारावृत्तिजातिमत्त्वमर्थः । इति दीधितिः ।