पृष्ठम्:न्यायलीलावती.djvu/२३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६४
न्यायलीलावती


न्यायलीलावतीप्रकाशः

 अत्रोच्यते । विवादाध्यासितं द्रवत्वाधिकरणं तैजसं असति विरोधिद्रवद्रव्य सम्बन्ध अत्यन्ताग्निसंयोगानुच्छेद्यानित्यद्रवत्वाधिकरणत्वात् यन्नैवं तन्त्रैवं यथा घृतम् । नचासिद्धिः घृते हि द्रवत्वोच्छेदकाले समानाधिकरणद्रवत्वसामग्रीसमवधान नास्ति सुवर्णे त्वस्ति । एवं च समानाधिकरणद्रवत्वसामग्न्यसमवहिताग्निसंयोगजन्यध्वंसप्रतियो-

न्यायलीलावतीप्रकाशविवृतिः

गानाश्यरूपाधिकरणमिति भावः । न चैतन्मते परमाणुरूपस्यैवाग्निसंयोगनाश्यतया तादृशरूपाधिकरणवृत्तिपृथिवीत्वव्याप्यजात्य [१]सिद्धिः, न्यायमतेनैवास्याभिधानात् । तन्नाश्यत्वेन त त्प्रयोज्यनाशप्रतियोगित्वस्य विवक्षितत्वाद्वा । न च दाहेन रक्तसारतामात्रदर्शनादन्यतरासिद्धितादवस्थ्यम्, व्यभिचारवत्तस्या अपि दोषत्वेनाभिप्रेतत्वात् । क्वचित्तु [२]अग्निसंयोगाविनाश्येति पाठः । सुवर्णे त्वग्निसयोगनाश्यरूपाधिकरणमवावयविपाक मतेनैवास्याभिधानादिति नासिद्धिरित्याहुः । असतीति । क्वध्यमानजलमध्यस्थित घृते व्यभिचार इति प्रथमविशेषणम् । अवयवात्मकद्रवद्रव्यसम्बन्धमादायासिद्धिरिति विरोधीति । स्वल्पाग्निसंयोगवति घृते व्यभिचार इति अत्यन्तेतिविशेषणम् । जलपरमाणौ व्यभिचार इत्यनित्येति । संख्यादिकमादाय घटादौ व्यभिचार इति द्रवत्वेति । जलावयविद्ववत्वं चाग्निसंयोगनाश्यमेवेति न जलावयविनि व्यभिचारः । समवधानं समवधाननियमः । केचित्तु घृतसुवर्णयोरग्निसंयोगनाश्यानाइयत्वाभ्युपगमेनेदमिति च घृते व्यधिकरणद्रवत्वसामग्रीसमवधानेऽपि समानाधिकरणद्रवत्वसामग्रीसमवधानं नास्तीत्याहुः [३] । सुवर्णे त्विति । अग्निसंयोगनाभ्यद्रवत्वोच्छेदसमय इति शेषः । जलसंयोगजन्यद्रवत्वोच्छेदसमये तादृशसामग्रीविरहादिति भावः । एवं चेति । न च नञ्द्वयं व्यर्थ अग्निसंयोगेन द्रवत्वनाशानन्तरं घृते द्रवन्वान्तरजननपक्षे तत्रैव व्यभिचारवारकत्वात् । तदनभ्युपगन्तृ मतेऽपि तेजःसंयोगजन्यतावच्छेदकजातिमादाय तत्रैव तथात्वात् । न च तन्मते ताहशसामग्रीसमवहिताग्निसंयोगजन्यध्वंसप्रतियोगिवत्वादित्येव स-


  1. जान्यप्रसिद्धः ।
  2. केचित्तु ।
  3. ०स्ती व्यर्थः ।