पृष्ठम्:न्यायलीलावती.djvu/२३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६५
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


न्यायलीलावती प्रकाशः

ग्यवृत्तिद्रवत्वत्वव्याप्यजातिमैह्रवत्व हेतुः । उपष्टम्भके च न द्रवत्वं पार्थिवद्रवत्वस्याग्नि संयोगेनोच्छेदापत्या बाधकेन द्रुतप्रतीतेभ्रमत्वात् । न चैवं पीतिमगुरुत्वाश्रये काठिन्योपलम्भापत्तिः, जलमध्यस्थितमसक्षिोदादेरिव द्रवद्रव्यसम्बन्धेन प्रशिथिलसंयोगवत्वात् । जलपरमाणौ च नानित्यं द्रवत्वम् न चासाधारण्यं अगृह्यमाणविशेषदशायां तस्य दोषत्वात् । तथा हि साध्याभाववद्याप्यवृत्तत्वस्येव साध्यवद्यावृत्तत्वस्यापि सत्त्वात् सत्प्रतिपक्षोत्थापकतया तस्य दोषत्वम् । न च साध्याभावसाधकस्य पृथिवीत्वसिद्धिपर्यवसायिनस्तुल्यबलत्वं अनुकूलतर्कविरहेणात्यन्ताग्निसंयोगात् द्रवत्वोच्छेदात्मकप्रतिकूलतर्केण च तस्य हीन बलत्वात् । तेजस्त्वसाधकस्य चानुकूलतर्कप्रतिकूलतर्काभावाभ्यामधिकबलत्वात् । यदापि सांशयिकत्वेनासाधारण्यस्य शेषत्वं तदापि विशेषादर्शनसहकृतस्य तथात्वम्। प्रकृते चोक्ततर्कस्य विशेषदर्शनस्य सत्त्वात्तदभावात् ।

न्यायलीलावती प्रकाशविवृतिः

म्यगिति वाच्यम्, यथोक्ते वैयर्थ्याभावात् । गुरुवादिकमादाय घटे व्यभिचारवारणाय द्रवत्वव्याप्यपदम् । व्याप्यपदद्रवत्वपदयोर्विकल्पेनान्वये हेतुद्वयम् । जलावयविद्रवत्वं चाग्निसंयोगनाश्य मेवेतिमतेनायं हेतुरतो न जलावयविनि व्यभिचारः । द्रवत्वपदं नैमित्तिकद्रवत्वपरमित्येके । सुवर्णे चरमद्रवत्वनाशकाले यद्यपि तादृशसामन्त्री नास्ति तथापि स नाशो नामिसंयोगजन्य इति विशिष्टाभावगर्भहेतुसिद्धिरविकला । अत्र चानित्यपदं असतीत्यादिपदं च न प्रयोज्यं तदनन्तर्भावेणैव साधुत्वात् । द्रवत्वनाश काग्निसंयोगस्य समानाधिकरण तादृशद्रवत्वसामग्रीसमवधानं पीलुपाकमते परमाणौ न्यायमते त्ववयविन्यपीति दिक् ।

 उपष्टम्भकस्य विजातयितया तद्द्रवत्वस्य सुवर्णद्रवत्वतुल्यतामभिप्रेत्याह – उपष्टम्भक इति । जलपरमाणाविति । एतदपि यथाक्ष्रुतहेत्वाभप्रायकम् | अगृह्यमाणेति । इदं च यथाश्रुतहेत्वभिप्रायेण समाधानम् । यदि च तादृशद्रवत्वसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वे हेतौ तात्पर्य्यम्, तदालोकादिव्यावृत्त-