पृष्ठम्:न्यायलीलावती.djvu/२३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६६
न्यायलीलावती


ननु वायुसत्वे किं मानम्, अध्यक्षमनुमानं वा । नाघः,


न्याय लीलावतीकण्ठाभरणम्

 नन्विति । नीरूपे स्पर्शाश्रयत्वे किं मानमित्यर्थः । मीमांसकमते मानमध्यक्षमिति | नैयायिक मतेनोत्तरमनुमानमिति । पूर्वपक्षिण एव

न्यायलीलावतीप्रकाशः

 किञ्च पीतिमगुरुत्वाश्रयो द्रव्यं यद्यत्यन्ताग्निसंयोगिपार्थिवत्वे सति विजातीय रूपप्रतिबन्धकद्रवद्रव्य संयोगि स्यात् पूर्वरूपविजातीयरूपवत् स्यात् अग्निसम्बद्धपटवदिति स्थिते प्रयोगः-- अत्यन्ताग्निसंयोगिपीतिमाश्रयो द्रव्यं विजातीय रूपप्रतिबन्धकद्रवद्रव्यसयुक्तं प्रहरपर्यन्तमग्निसंयोगे सति पूर्वरूपविजातीयरूपानाधारपार्थिवत्वात् जलमध्यस्थिताग्नि संयुक्तपीतपटवत् । न चाप्रयोजकत्वं विरोधिद्रव्य' सम्बन्धं विना पार्थिवेऽत्यन्ताग्निसंयोगस्य पूर्वरूपविजातीयरूपजनकत्वादित्यस्माकं पैतृकी राद्धान्तसरणिः ।

 नन्विति । पृथिव्यप्तेजोभिन्नस्य स्पर्शाधारत्वे किं मानमित्यर्थः ।

न्याय लीलावती प्रकाशविवृतिः

त्वनिश्चयाभावानासाधारण्य मित्यवधेयम् । र्कि चेति । अग्न्यसंयुक्तजले पटेऽपि व्यभिचारवारणायाद्यविशेषणद्वयम् । जलमध्यस्थघृते व्यभिचारवारणाय विजातीयेति । प्रहरेति । अत्र रूपानाधारत्वं पीतरूपानाधारत्वम् । अन्यथा सजातीयरूपवानि भस्मादौ व्यभिचार इत्यवधेयम् । अत एव दृष्टान्ते पीतत्वग्रहणमपि सङ्गच्छते । अत्र चावयविपाकमतेऽवयविनः पीलुपाकमते परमाणोरेव पक्षता । तन्मते द्रवद्रव्यसम्बन्धस्थावयविनाशप्रतिबन्धकत्वेऽपि तद्रूरूपोत्पत्ति प्रतिबन्धकत्वाभावात् । यद्यप्यनेनापि तेजस्त्वं नायाति तथापि रूपवत्वेन वायुत्वे निरस्ते नैमित्तिकद्रवत्वेन जलत्वनिरासे अनुच्छिद्यमानद्रवत्वेन पृथिवीत्वनिरासे धर्म्मिकल्पनात इति न्यायेन दशमद्रव्यत्वनिरासे परिशेषात् तेजस्त्वमिति भावः ।

 सिद्ध्यसिद्धिव्याघातभयादाह-पृथिवीति । परस्य प्रत्यक्षत्वमात्रं न साध्यम्, अपि तु बहिरिन्द्रिय प्रत्यक्षत्वमेव, तत्रैव परेण स्पर्शवत्त्वप्रयोजकत्वस्वीकारादिति तदभावसाधनमेव सम्यागित्यरुचे-