पृष्ठम्:न्यायलीलावती.djvu/२३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६७
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


अरूप [१] द्रव्यत्वात् । नेतरः, [२] लिङ्गाभावात् । स्पर्शादिचतुष्कं


न्यायलीलावतीकण्ठाभरणम्

एकग्रन्थेन वा विकल्पः । अरूपीति । आत्मभिन्नारूपिद्रव्यत्वात् । चतुष्कमिति । स्पर्शः शब्दो धृतिः कम्पश्चेत्यर्थः । आद्यस्यान्यथासिद्धि-

न्यायलीलावतीप्रकाशः

अरूपेति । वाह्मेन्द्रियाप्रत्यक्षत्वस्य साध्यत्वान्नात्मनि व्यभिचारः । आत्मभिन्नत्वेन हेतुर्विशेष्य इत्यन्ये । ननु वायुः प्रत्यक्षः प्रत्यक्षस्पशश्रियत्वात् । न च साधनावच्छिन्नसाध्यव्यापकं रूपवत्वमुपाधिः स्पार्शनप्रत्यक्षत्वे तस्याप्रयोजकत्वान्महत्त्वे सत्युभूतस्पर्शस्यैव तन्त्रत्वात्, न तूभूतरूपवत्वे सति गौरवात् । ऊष्मादेश्व स्पार्शनत्वान्न व्यभिचारः । न च वायोः प्रत्यक्षत्वे तद्गतसंख्यादिप्रत्यक्षत्वापत्तिः व्यक्तौ व्यभिचारात् पृष्टलग्नवस्त्रादिव्यक्तेः संख्याद्यप्र-

न्यायलीलावतीप्रकाशविवृतिः

राह - अन्य इति । वायुरिति । हेतूकर्त्तव्यधमाश्रय इति शेषः। तेन न भागवाधासिध्योः प्रसङ्गः । प्रत्यक्ष इति । स्वातिरिक्ता विशेष्यक साक्षात्कारकजनक इत्यर्थः । तेन न सामान्यादिप्रत्यासत्तिजप्रत्यक्षमादायार्थान्तरम् । स्वविशेष्यकप्रत्यक्षजनकत्वेऽत्पि वायुघटितसंयुक्त समवेतविशेषण तात्मक [३] प्रमेयत्वघटिता यत्र प्रत्यासत्तिस्तत्र तज्जन्यप्रत्यक्षविषयतामादायार्थान्तरमेवेति नञद्वयगर्भे साध्यम् । निर्विकल्पक विषयत्वमेव साध्यमिति मिश्राः । संयोगमात्र प्रत्यासप्तिजन्यज्ञानविषयत्वं साध्यमित्यन्ये [४] । वस्तुतो ज्ञानव्यतिरेका प्रयुक्तव्यतिरेकप्रतियोगिज्ञानविषयत्वं साध्यम् । प्रत्यक्षेति । यथा साध्ये प्रत्यक्षत्वं निरुक्त्तं तथैव हेतौ प्रवेश्यमन्यथा व्यभिचारापत्तेः । न चाश्रयत्वमधिकं स्पर्शवत्सम्बन्धस्याहेतुत्वाविरोधात् । अत्र प्रत्यक्षत्वं स्वरूपयोग्यतामात्रं फलोपधानस्य शीतो वायुरित्यादावभावेन प्रत्यक्षत्वाप्रयोजकत्वात् । साधनेति । साधनैकदेशेत्यर्थोऽन्यथा वैयर्थ्यात् । वस्तुतः साधनादेरवच्छेदकत्वं सामानाधिकरण्यमात्रामिति न लाघवगौरखावतारः । तद्विषयं प्रत्यक्षविषयत्वं शङ्कते--तस्यापीति ।


  1. अरूपिद्र० ।
  2. नापरः ।
  3. तात्मिका प्र० ।
  4. मित्यपरे ।