पृष्ठम्:न्यायलीलावती.djvu/२३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६८
न्यायलीलावती


न्यायलीलावतीप्रकाशः

हेऽपि त्वचाग्रहात् तज्जातीये च फूत्कारादौ संख्यादेग्रहात् । न च प्रत्यक्षविषयत्ववत वहिरिन्द्रियजन्यतद्विषयत्वमपि नैकरूपावच्छेद्यं सति सम्भवे बाधकाभावे च त्यागायोगात् तथापि नाभूतस्पर्शवत्वं तथा चन्द्रमहसि तदभावात् । नापि जन्येन्द्रियग्राह्यविशेषगुणवत्वं कार्यमहत्त्वसमानाधिकरणविशेषगुणवत्वं वा रसनगत पित्तद्रव्यस्योद्भूततिक्तरसस्य वायूपनीतसुरभिभागस्य च प्रत्यक्षत्वापत्तेः, किं तद्भूतरूपवत्त्वं तथेति चेन्न, नयनगतपित्तद्रव्यस्य प्रत्यक्षत्वापत्त्ते । अथ वायुर्यदि स्पार्शनप्रत्यक्षविषयद्रव्यं स्यादुद्भुतरूपः स्यात् न चैवं तस्मान्न तथा तादृशद्रव्यस्य रूपजनकत्वनिय- मादिति चेन्न, रूपवत्समवेतद्रव्यत्वस्य तत्प्रयोजकत्वात् । तादृशप्रत्यक्षविषयत्वस्य रूपजननोत्तरभावितया तत्रातन्त्रत्वात् । घटो यदि चक्षुरितरेन्द्रियग्राह्यद्रव्यं स्यादरूपमचाक्षुषं स्यान्न चैवं तस्मान्न तथेति घटस्याप्यस्पार्शनत्वापत्तेः । अत्राहुः । चलति पक्षिकाण्डादौ पूर्वदेशविभागोत्तरदेशसंयोगयोर प्रत्यक्षत्वे चलतीतिधीस्तल्लिङ्गिकापिन स्यात् पूर्वदेशोत्तरदेशयोः प्रभामण्डलयोरनुभुत स्पर्शत्वना-

न्यायलीलावती प्रकाश विवृतिः

जन्येति । व्योमादिवारणाय जन्येति । जन्यशरीरादिग्राह्य शब्दवत्तयास एवातिप्रसङ्ग इति इन्द्रियेति । ग्राह्यो लौकिक प्रत्यक्ष विषयस्तेन नोपनीतभानमादाय व्योमादावतिप्रसङ्गः । कार्येति । आत्मन्यतिव्याप्तिवारणाय कार्यमहत्त्वपदे । एकैकैन तदवारणात् । घटात्मसंयोगमादाय तत्रैवातिव्याप्तिवारणाय विशेषपदम् । न चैवमपि चक्षुरादावतिप्रसक्तिः विशेषगुणपदेन गुणविशेषस्य प्रत्यक्षगुणस्योक्तत्वात् । नयनगतेति । तत्र रूपमेव गृह्यते न तु तदाश्रयो द्रव्यमिति स्वमतेन, न्यायप्राच्य मतावलम्बनेन वेदमन्यथेष्टापत्तेः । अन्यथेति । अत्र विषयत्वं तद्विशेष्यत्वम् । उद्भूतरूपः प्रत्यक्षरूपः, तेन रूपवतसमवेतत्याद्यग्रिमग्रन्थवि रोधो न । अन्यथा परमाणावभावेन रुपवत्समवेतत्वस्य [१] उद्भूरूपजनकतायाम प्रयोजकत्वेन तद्विरोधापत्तेः । रूपवत्समवेतत्वमुद्भूतरूपवत्समवेतत्वं तेन व्घणुके व्यभिचारः । चलतीति । तथा चोद्भूतरूपवत्त्मेव प्रयोजकमिति वायुरप्रत्यक्षः । न चैवं चान्द्रप्रभासंख्यादि-


  1. अन्यथा परमाणुत्वाभावेन रूपवत्समवेतजन्यत्वस्य उद्. ।