पृष्ठम्:न्यायलीलावती.djvu/२४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६९
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशांद्भासिता


न्यायलीलावतीप्रकाशः

प्रत्यक्षत्वात् । न च पूर्वोत्तरदेशानुपलम्भोपलम्भाभ्यां तयोरनुमानं पूर्वोत्तरदेशयोरप्रत्यक्षत्वेन लिङ्गासिद्धेरित्युभूतस्पर्शवत्वं [१] तत्राप्रयोजकम् । अथ शीतो वायुरित्याद्यारोपो न स्पार्शनः विशेष्यस्यायोग्यत्वात् । न च प्रमायां तथा सामान्ये वाधकाभावात् । न चानुमानोपनीतवायौ त्वगुपनतिस्पर्शस्य मनसारोपः, तल्लिङ्गस्पर्शादिचतुष्काग्रहणात् । शतिस्पर्शस्यातल्लिङ्गत्वात् । न च शीतद्रव्योपमायकत्वेनानुमिते वायौ मनसा शीतारोपः, तदा शीतस्पर्शानाश्रयत्वेन प्रमिते वायौ तदनारोपात् । न च स्वप्नविभ्रमवन्मानसोऽयं भ्रमः, वहिरिन्द्रियव्यापारानुविधानात् । मैवम् । यथा हि वायुवैधर्म्येण जलवृत्तितया गृहीतस्य शीतस्पर्शस्य वायावारोपः, दिङमोहवद्दोषमाहा-

न्यायलीलावतीप्रकाशविवृतिः

ग्रहापत्तिः । विष्वग्विसारि (स?) जातीय सम्बन्धस्य दोपस्य [२] प्रतिब न्धकत्वात् । अन्यथा सौरप्रभासंख्याग्रहापत्तेस्तत्रापि तुल्यत्वात् । अत्र वदन्ति । चाक्षुषत्वे उद्भूतरूपवत्वं स्पार्शनत्वे उध्दूवत्त्वं वहिरिन्द्रिय प्रत्यक्ष द्रव्यग्राहक वहिरिन्द्रियव्यवस्थापकगुणवत्वं प्रयोजकमस्तु यद्विशेषयोरिति न्यायादिति । अत्र ब्रूमः । वहिरिन्द्रियाणां द्रव्यग्राहकत्वं द्रव्ये वहिरिन्द्रियग्राह्यत्वबुद्धिवेद्यं तच्च ग्राह्यत्वमवच्छेदकं विना दुर्ग्रहमिति तत्त्वेन उद्भूतरूपवत्त्वमेव कल्प्यते चलतीतिप्रतीत्यनुरोधात् । यदि च रूपेण प्रभामनुमाय तद्देशोपलम्भानुपलम्भाभ्यां चलतीतिधीः तदा तूभयमपि प्रयोजकं विनिगमकाभावात्, तथापि वायुरप्रत्यक्ष एव । यत्तद्भूतगुणवत्त्वमेव सामान्य प्रयोजक मतिप्रसङ्गभङ्गश्च विशेषसामग्रन्यैव उद्भूतत्वं च मूर्त्तविशेषगुणमात्रवृत्तीति आकाशाद्यवृत्तितया न नित्यस्येत्यादिव्याप्तिविरोध इति । तन्न । विशेषकारणतावच्छेदकानाक्रान्तवृत्तेः सामान्यकारणतानवच्छेदकत्वात् । अन्यथेन्द्रियत्वमपि साक्षात्कारहेतुतावच्छेदकं न स्यात् । द्रव्यत्वस्यैव लाघवेन तथात्वान्नित्यस्येत्यादिव्याप्तिस्वीकारपक्षेऽपि सर्वत्र सामान्यकारणताया जन्यप्रमेयत्वेनैवाच्छेदसम्भवात । न च द्रव्यसाक्षात्कार इव वहिरिन्द्रियद्रव्यसाक्षात्कारेऽप्यननुगतमेव प्रयोजकमिति वाच्यम्, सति सम्भव


  1. तरूपवत्त्वं ।
  2. दोषस्येति द्वितीयपुस्तके नास्ति ।