पृष्ठम्:न्यायलीलावती.djvu/२४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७०
न्यायलीलावती


लिङ्गमिति चेन्न, स्पर्शस्य घराश्रयत्वेनाप्युपपत्तेः । रूपाभावान्नैव मिति चेन्न, उष्णस्पर्शशीत स्पर्शयोरपि वायवीयत्वापत्तेः । तयोर


न्यायलीलावतीकण्ठाभरणम्

माह—स्पर्शस्येति । पृथिव्या एवानुभूतरूपाया: स्पर्शोऽयमनुभूयत इत्यर्थः । अन्यथासिद्धिमेव दूषयितुं शङ्कते– रूपेति । पार्थिवस्पर्शो रूपनियतो रूपं च नानुभूयत इति स्पर्शोऽपि नायं पृथिव्या इत्यर्थः । उष्मणः स्पर्शो विषक्तावयवजलस्पर्शोऽपि रूपासहचरत्वाद्वायवीय एव स्यादेवमित्याह - उष्णेति । तयोरिति । उष्णशीत स्पर्शसहचररूपयोरित्यर्थः । तथा च शीतोष्णस्पर्शसहचरं रूपमस्त्येवेति भावः । तर्हि

न्यायलीलावतीप्रकाशः

त्म्यात्, तथा शीतस्पर्शे वायुलिङ्गत्वारोपाद्वायवीयत्वानुमानम् । न चैवं शीतोऽयं वायवीय इति धीः स्यात् तदनन्तरं शीतो वायुरिति मानसारोपादिति संक्षेपः ।

 उद्भूत पार्थिवस्पर्शस्य उद्भूतरूपसामानाधिकरण्यनियमादाह - रूपाभावादिति । रूपासहचरस्पर्शस्य वायवीयत्वे उष्णो वायुरित्यादिप्रतीते रुष्णस्पर्शाश्रयोऽपि वायु: स्यात् । अनुभूतरूपाश्रयस्य तेजः प्रभृतेरुद्भूतस्पर्शानाश्रयत्वनियमादाह- उष्णस्पर्शेति । तयोरिति । उष्ण

न्यायलीलावती प्रकाश विवृतिः

इति न्यायात । न च द्रव्यसाक्षात्कारमात्रे रूपवत्त्वस्य प्रयोजकत्वे आत्मनोऽप्रत्यक्षतापत्तिः । तथा च साक्षात्कारिमिथ्याज्ञाननिवृत्तये तत्त्वसाक्षात्कारपर्यंन्तधावनानुपपत्तेः । विस्तरश्चास्य "प्रत्यक्षप्रकाशे” ।

 तथा शीतस्पर्श इति । शीतस्पर्शवृत्तिधर्मे वायवीयत्वव्याप्यत्वारोपात तेन वायवीयत्वानुमानमित्यर्थः । न चानुमाने विरोधिज्ञानमात्रस्य प्रतिबन्धकतया वायुवृत्तित्वग्रहे कथं वायवीयत्वानुमितिरिति वाच्यम्, अनुमानपदेन व्याप्यदर्शनोत्तरभावित्वाचवायवीयत्वप्रत्यक्षस्यैवाभिलापात् । तत्र चानुमानिकविरोधिज्ञानस्याप्रतिबन्धकत्वात्, संशयोत्तरभाविप्रत्यक्षाभिप्रायेण लिङ्गत्वारोपस्याप्युपयोगादिति दिक् । मानसारोपादिति । न च मानसस्यापि विरोधिज्ञानमात्रनिवर्त्यतया कथमेवमिति वाच्यम्, प्राथमिकत्वाचप्रत्यक्षेण विरोधिज्ञानव्याहतेरिति संक्षेपः ।