पृष्ठम्:न्यायलीलावती.djvu/२४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७१
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशांद्भासिता

नुद्भूतरूपत्वा [१] दग्रहणमिति चेत्, तुल्यमनुष्णाशी तेऽपि [२] । शब्दोऽपि चोद्भूतस्पर्शवद्वेगवत्पृथिवी [३] द्रव्याभिघातज एव स्यात् । गन्धरूपयोरग्रहणात् नैवमिति चेन्न, अनुद्भूतत्वेनापि तयोरुपपत्तेः । अप्रतीघातान्नैव पार्थिवमिति चेन्न, धूमवदुपपत्ते: । अप्रतीयमानरसत्वावमिति चेन्न, अनुद्भूतत्वेन जले द्रवत्वाप्रतीतिबदुपपत्तेः । गुरुत्वाभावान्नैवमिति चेन्न, तदसिद्धेः । अपातात्तत्सिद्धिरिति चेन्न, वेगेनैव काण्डादिवदपातसम्भवात् । तस्य [च] सदागतिमत्त्वेन वेगत्यागाभावात् । अन्यथा वायूपनीतजलानलपृथिवी नामपि प्रतीतिवैलक्षण्यात्


न्यायलीलावतीकण्ठाभरणम्

वायवीयत्वाभिमतोऽपि स्पर्शोऽनुभूतरूपसहचरः पार्थिव एवेत्याहतुल्यमिते । द्वितीय हेतोरन्यथासिद्धिमाह -- शब्दोऽपीति । स्पर्शवद्वेगबद्द्रव्यं पृथिव्येवेति भावः । अनुद्भूतत्वेनापीति । तयोर्गन्धरूपयोरनुभूतत्वेनाप्यग्रहणोपपत्तेरिति योजना । 'प्रतीघातः' पार्थिवो धर्म्मः, स च विवादाध्यासिते नोपलभ्यते इति नेयं पृथिवीत्याह- अप्रतीघातादिति । धूमवदिति । कुड्यादिना च धूमवद्वायोरपि न प्रतीघात एवेति भावः । यद्वा अप्रतीघातादिति । नानेन किञ्चिद् द्रव्यं प्रतिहन्यत इत्यर्थः । जल इति । विषक्तावयवे करकायामित्यर्थः । तदसिद्धेरिति । गुरुत्वाभावासिद्धेरित्यर्थः । गुरुत्वकार्य्यपतनाभावात गुरुत्वाभाव इत्याह - अपातादिति । गुरोरपि वेगवतोऽपातदर्शनात् अपातोन गुरुत्वाभावे हेतुरित्याह — वेगेनेति । तर्हि काण्डवत् कदाचित् पतनं स्यादित्यत आह - तस्येति । किं च किञ्चिद्वैधर्म्याधीनं प्रतीतिवैलक्षण्यमतन्त्रमत आह-अन्यथेति ।

न्यायलीलावतीप्रकाशः

शीतस्पर्शाश्रययोरनुद्भूतरूपत्वादग्रह इत्यर्थः । तुल्यमिति । अनुष्णाशीतस्पर्शाश्रय पृथिव्यपि तत एव न गृह्यत इत्यपि स्यादित्यर्थः । द्रव्याभिघातजः अनुद्भूतरूपोद्भूत स्पर्शपृथिव्यभिघातज इत्यर्थः । जल इति । रसनेन्द्रियादावित्यर्थः । वेगत्यागेत्युपलक्षणं कदाचित्पतनेऽपि न दोष इति द्रष्टव्यम् । अन्यथेति । उक्तन्यायेन पृथिवीत्वसम्भवेऽपि द्रव्या-


  1. नुद्भूतत्वादग्र ।
  2. शीतस्पर्शेऽपि ।
  3. त्र्वद्रत्र्या ।