पृष्ठम्:न्यायलीलावती.djvu/२४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७२
न्यायलीलावती


द्रव्यान्तरताप्रसङ्गात् । कल्पनालाघवाद्धर्ममात्रमुपकल्प्यते न तु धर्मीति चेत्, तुल्यं वायावपि । धृतिरपि तत्संयोगादेवोपपत् स्यते [१] । ब्रह्माण्ड इव वा पारमेश्वरयत्नादेव स्यात् । कम्पोऽप्येतेन व्याख्यातः । वहेस्तेजोविशेषस्योर्द्धगमननियमवत् भुवोऽपि तिर्यग्गतिरुपपत्स्यते [२] | अत एव मेघादिप्रेरणं व्या ख्यातम् । जठरानलवच्च [३] पार्थिवः कश्चिदन्तः शरीरसञ्चारी माण: स्यादिति न वायुसिद्धिः ।


न्यायलीलावतीकण्ठाभरणम्

ननु वायूपनीतानां जलादीनामनुद्भूतरूपवत्वमात्रं कल्प्यते न तु द्रव्यान्तरत्वं कल्प्यते धर्म्मिकल्पनातो धर्म्मकल्पनाया लघुत्वादित्याह-कल्पनेति । तर्हि वायुरप्यनुद्भूतरूपा पृथिव्येवास्तु किं द्र व्यान्तरकल्पनयेत्याह - तुल्यमिति । तृतीयलिङ्गमन्यथासिद्धमाह ---- धृतिरपीति । तत्संयोगादिति । अनुद्भूतरूपोद्भूतस्पर्श पृथिवी संयोगादित्यर्थः । ब्रह्माण्ड इवेति । यथा परमेश्वरस्य विधारकप्रयत्नाद् ब्रह्माण्डस्थितिस्तथा मेघादिधृतिरपि स्यादित्यर्थः । तथा च श्रुतिः "एतस्य प्रशासने गार्गि द्यावापृथिव्यौ" विधृते तिष्ठत इति भावः । चतुर्थे वायुलिङ्गमन्यथासिद्धमाह - कम्पोऽपीति । अनुभूतरूपोद्भूतस्पर्शपृथिवीकृत एव तृणादौ कम्प इत्यर्थः । ननु तिर्थग्गमनं पृथिव्यादिवैधर्म्य वायोर्द्रव्यान्तरत्वं साधयिष्यतीत्यत आह -वह्नेरिति । पृथिव्यवान्तरजातीयता निबन्धनं तिग्गमनं न वायोर्द्रव्यान्तरत्वे मानमित्यर्थः । अतएवेति । अनुद्भूतरूप पृथिवीत एव मेघादिप्रेरणमपि स्यादित्यर्थः । ननु प्राणादिपञ्चकस्यासाधारणतत्तदर्थक्रिया पृथिव्यादिविलक्षणा वायोर्द्रव्यान्तरत्वे मानं स्यादित्यत आह - जाठरेति । रसार्ज्जनलक्षणार्थक्रियाकारित्वेऽपि यथा जठरानलं तेज एव न द्रव्यान्तरं

न्यायलीलावतीप्रकाशः

न्तरकल्पनायामित्यर्थः । 'धर्ममात्रं' जलादीनां रूपाद्यनुद्भवमात्रं 'न (तु?) धर्मी'न द्रव्यान्तरमित्यर्थः । धृतिर्गुरुत्व प्रतिबन्धः। तत्संयोगात् ता. दृशपृथिवीसंयोगादित्यर्थः। एतेन तादृशपृथिषीसंयोगेनोपपत्त्येत्यर्थः ।


  1. ०पपद्यते ।
  2. ०पपद्यते ।
  3. ०वदेष पा० । जाठरेति कण्ठाभरणधृतः पाठः ।