पृष्ठम्:न्यायलीलावती.djvu/२४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७३
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशांद्भासिता


मैवम् । त्वगिन्द्रियस्य गन्धाग्राहकत्वेन रसनवदपार्थिवत्वात् रूपरसाग्राहकत्वेनैवातैजसानाप्यत्वात् । शब्दाग्राहकत्वेनानाभसत्वात् । वहिरिन्द्रियत्वेन मनोव्यतिरेकित्वात् । अत एव ग्राह्यजातीय विशेषगुणवखेन स्पर्शवत्त्व्तद् द्रव्यान्तरमकृतिकत्वेन वायुसिद्धिः । न च गन्धाग्राहकत्वमप्यदृष्टविशेषसाहित्यात्पार्थिवं स्यादिति वाच्यम्, सर्वेन्द्रियाणामपलापप्रसङ्गात् । स चायं स्प-


न्यायलीलावतीकण्ठाभरणम्

तथा प्राणोऽपि पृथिवीविशेष एवेत्यर्थः ।

 त्वगिन्द्रियस्येति । त्वगिन्दियं न पार्थिवं गन्धाग्राह केन्द्रियत्वात् । नाप्यं रसाग्राहकेन्द्रियत्वादित्यादिना चतुष्कभेदसिद्धौ पञ्चवहिरिन्द्रियप्रकृ तिभूतं द्रव्यं सिध्यति तदेव च वायुरित्यर्थः । ज्ञानजनकमनः संयोगाश्रयत्वेन इन्द्रियाणां द्रव्यत्वव्यवस्थितरित्यर्थः । अत एवेति । वहिरिन्द्रियत्वादेवेत्यर्थः । यद् वहिरिन्द्रियं तत् स्वग्राह्यविशेषगुणवृत्तिगुणत्वसाक्षाड्याप्य जातिमद् गुणवदिति व्याप्तेः स्पर्शग्राहि त्वगिन्द्रियं स्पर्शवदेव सेत्स्यतीत्यर्थः । स्पर्शाद्याश्रय इत्यादिपदात् सामान्यगुणान्तरो-

न्यायलीलावती प्रकाशः

पृथिवीत्वे वायोस्तिर्यग्गतिनियममुपपादयति — वह्नेरिति । गन्धाप्राहकत्वेनेति । गन्धाग्राहकेन्द्रियत्वेनेत्यर्थः । एवमग्रे पीन्द्रियत्वेन हेतुर्विशेष्यः । 'अत एव' वहिरिन्द्रियत्वादेवेत्यर्थः । स चेति । स्पर्शवद्वहिरिन्द्रियस्थ स्वग्राह्यविशेषगुणसमानाधिकरणद्रव्यत्वसाक्षायाव्यजातिमत्त्वनिय-

न्याय लीलावती प्रकाशविवृतिः

 पृथिवीपरमाणौ व्यभिचारादाह--गन्धाग्राहकेन्द्रियत्वेनेति । ननु स एवेत्यत्र न सैव व्यक्तिरभिमता, बाधात् । किन्तु तज्जातीया, सा न युक्ता, त्वगिन्द्रियस्य श्रोत्रवदेकव्यक्तिविभाजकोपाधित्वादित्याशङ्कयाहस्पर्शवदिति । बहिःपदं सम्पातायातम् । प्रत्यक्ष स्पर्शाश्रयस्य वायुत्वसिध्घर्थ स्वप्रायोति । ग्राह्यविशेषो लौकिकप्रत्यक्ष इत्यर्थः । यत्तु संख्यादिनाऽर्थान्तरवारणाय विशेषपदमिति तन्न, ग्राह्य संख्या सामाधिकरण्ये ग्राह्यविशेषगुणसामानांधिकरण्यनियमात् । साक्षात्पदं द्रव्यत्वेनार्थान्तरवारणाय भेदगर्भध्याय्यत्वलाभार्थम् । नन्वेवमपि के प्रत्यक्षाश्रयवायु-